________________
वृत्तिनिरूपणम्
अथ 'वैदर्भ्यादिरीतीनां कैशिक्यादिवृत्तिभ्यः कथं भेद इति चेदुच्यते ।
2
सन्दर्भस्यातिमृदुत्वं
" शब्दगुणानां रीतीनाम् अर्थविशेषनिरपेक्षत्वात् केवलसन्दर्भसौकुमार्यप्रौढत्वमात्रविषयतया कैशिक्या दिवृत्तिभ्यो भेदस्सम्भवति । नाम असंयुक्त कोमलवर्णत्वमतिप्रौढत्वं परुषवर्णविकटबन्धत्वं संयुक्तमृदुवर्णेवीषन्मृदुत्वम् । अतिविकटपरुषवर्णेषु ईषत्प्रौढत्वम् । तत्र रीतिर्नाम गुणाश्लिष्टपदसङ्घटना | सा त्रिविधा । वैदर्भी गौडी पाञ्चाली वेति । तत्र 'परुषबन्धर हितानतिदीर्घसमासा वैदर्भीरीतिः ।
यथा
7
यस्याकारो भवति कृतिनां लोचनानन्ददायी यश्चारित्रं श्रवणविवरानन्ददं श्रावकाणाम् । चिन्ता यस्य प्रभवति सदा मानसानन्दक्लस्यै सस्स्वानन्दं दिशतु भगवानेष मे रामचन्द्रः ।।
1 अथ रीतीनां - म
2 शब्दगुणाश्रितानां -
3
-त
रीतिरस्यात् पदविन्यासभङ्गी सा तु त्रिधा मता । कोमला कठिना मिश्रा चेलि स्यात् तत्र कोमला ॥ द्वितीयतुर्यवर्णैर्या स्वल्पैर्वर्गेषु निर्मिता । अल्पप्राण'क्षरप्राया दशप्राणसमन्विता ॥ समासरहिता स्वल्पैः समासैर्वा विभूषिता । विदर्भजनहृद्यत्वात् सा वैदर्भीति कथ्यते ।।
(र. सु. प्र. वि. २२८-२२९)
4 बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते ॥
97
(प्र. रु. का. प्र. २७)