________________
अलङ्कारराघवे
"ईपन्मृद्वर्थसन्दर्भा भारती ।
"ईपत्प्रौढार्थसन्दर्भा सात्वती' _ अत्र सुकुमारसन्दर्भयोम्ययोः शृङ्गारकरुणारसयोः कैशिकी, अति. प्रौढार्थसन्दर्भयोग्ययोः रौद्रबीभत्स्योरारभटी, अनतिसुकुमारार्थसन्दर्भयोग्येषु हास्यशान्ताद्भुतेषु भारती, अनतिप्रौढसन्दर्भयोग्ययोर्वीरभयानकयोस्सात्वती । तत्र शृङ्गारे कैशिकी-यथा
परस्परालोकनकौतकोत्कयोश्शरीरतो रामनिमीन्द्रकन्ययोः। विवाहवेद्यं पुलकाङ्कुरप्रजा
स्तमुत्सवं द्रथुमिवोद्गता बहिः ।। करुणारसे कैशिकी-यथा
'तूर्णमेष्यति तमस्समन्ततो रामचन्द्रविपिन गते त्वयि । तारके मम न चोल्लसिष्यतः क्वापि यास्यति मनश्चकोरकः।
प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते। प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥
(र. सु. प्र. वि. १६१). सात्रिकेन गुणेनापि त्यागशौर्यादिना युता। हर्षप्रधाना सन्त्यक्तशोकभावा च या भवेत् ॥
(र. सु प्र. वि. २६२) तत्र-त