________________
व्यञ्जनानिरूपणम्
उभयशक्तिमूला यथा
प्रयाणविजयप्रदं बलिविरोधिविद्रावणं नितान्तविबुधास्पदं गुरुमहोत्सवस्थापनम् । विवृद्धतपनान्वयं बिरुदकेतुशोभावहं तवाहतसुराजकं जयति रामरम्यं धनुः ॥
अत्र प्रयाणविजयप्रदं बलिविरोषिविद्रावणमित्यर्थशक्त्या गुरुमहोत्सव. स्थापनं बिरुदकेतु शोभावहमित्यादिशब्दशक्त्या च रामधनुषो धनगशिसाम्यं न्यजत इत्युभयश तिमलता।
अथ 'कैशिक्यादीनां स्वरूपनिरूप्यते - 'अत्यन्तसुकुमारार्थसन्दुर्भा कैशिकीवृत्तिः । "अत्युद्धतार्थसन्दर्भ:-आरभटी'।
1 (i) कैशिफ्यारभटी चैव सात्वती भारती तथा । . . चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ।।
(प्र. रु. का. प्र-६) (ii) भारती सात्वती चैव कैशिक्यारभटीति च । चतस्रो वृत्तयस्तासामुत्पत्तिर्वक्ष्यते स्फुटम् ॥
(र. सु. प्र. वि. २४४) नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः । समन्विता भवेद्वृत्तिः कौशिकी श्लक्ष्णभूषणा ॥
(र. सु. प्र, वि. २६८) मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् । छेद्यैर्भेद्यैः प्लुतैर्युक्तां वृत्तिमारभटी विदुः
(र. सु. प्र. वि.२८१)