________________
90
अलङ्कारराघवे
अर्थश.क्तमूलव्यञ्चनावृत्तियथा
भञ्जाने रधुतिलके गिरीशचाप सजातं चटचटनिस्वनं गभीरम् । आकर्ण्य क्षितितनयात्मनीषु मोक्तुः
पुष्पेषोर्धनुरपि भङ्गमेव मेने ॥ अत्र हरचापभन्ने जाते सीता मन्मथचापमपि भङ्गमेव मेन इति सीताया मन्मथवाणजनितबाधनिवृतिय॑ज्यते । ___ननु सीतामन्मथबाणभेदजनितबाधशून्या तच्चापभङ्गाभिमानयुक्तत्वात् । यो यच्चापभङ्गाभिमानी स तहाणवेध ननितवाधशन्यः . यथा. संप्रतिपन्नवदिति । अभिमानादेव तत्पतीतिरस्त्विति चेन्न। हेनावभिमानशब्देन प्रथमाविवक्षायां स्वरूपासिद्धिप्रसङ्गात। भ्रमविवक्षायां व्यभिचारात्। अत एव न ज्ञानमात्रविवक्षापि युक्ता। व्यभिचारतादवस्थ्यादेव । एवमुदा हरणान्तरेष्वपि व्याप्त्यभावानुमानप्रवृत्तिरिति ध्वनिरनुमानादतिरिच्येत इति ध्येयम् ।
___ नाप्यभिधावृत्या तत्प्रतीतिः। तस्याः सङ्केतार्थमात्रप्रती तावेवपर्यवसानान्। तस्मादर्थमूलव्यञ्जनेति सिद्धम् ।
1 भग्नमेव मेने-त ' भनमेव-त
अनुमानादेव-त • रिष्यते इति-त • सङ्केतितार्थमात्र-त