SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ व्यञ्जना निरूपणम् न च व्यञ्जनावृत्यङ्गीकारेऽपि एतन्यायविरोधस्समान इति वाच्यम् । तस्य न्यायस्य एकस्मिन् प्रयोगे अनेक' वाच्यार्थ निषेधपरत्वात् । अन्यथा अभिहितान्वयवादिमते गामानयेत्यादावपि एतन्न्याय विरोधात् । पदार्थातिरिक्त वाक्यार्थप्रतीतिर्न स्यात् । नन्वक्षभ्यां पश्यन्ति दीव्यन्तीचेत्यादौ एकस्मिन् प्रयोगेऽप्यनेकार्थवाचकत्वं दृश्यत इति चेन्न । तत्र क्रियाभेदघटितार्थ मेदेन वाक्यार्थभेदाङ्गीकारात् । प्रकृते तदभावात् । अन्यथा तद्वदेव प्रकृतेऽप्यर्थान्तरेण प्रकृत'वाक्यार्थशोभनं स्यात् । अतो नात्राभिधायुक्ता । नापि लक्षणा सम्भवति । वाकयानुपपत्तेरभावात् । वाच्यारमणीयत्वे च लोके नानुपपत्तिप्रयोग इति प्रागेवोक्तत्वात् । तर्हि व्यापारद्वयेन मर्थभेदसत्वे वाक्यभेदस्स्यादिति चेन्न । वाक्यभेदाङ्गीकारे अर्थान्तरेण प्रकृतवाक्यार्थस्य बाधकाभावप्रसङ्गात् । वाक्य. भेदस्थले तथा दर्शनात्। लौकिकवाक्यानां वक्तृविवक्षापरतन्त्रत्वाच्च । नाप्यत्र गौणी शङ्कनीया । गुणयोगाभावात् । न चात्र श्लेषालङ्कारश्शङ्कनीयः । उभयोः प्रकृतत्वाभावेन प्रकृतश्लेषाभावात् । उभयोरप्रकृतत्वाभावेन भप्रकृतस्याप्यसम्भवात् । विशेष्यस्यापि श्लिष्टत्वेन प्रकृता प्रकृतश्लेषस्याप्यनर्हत्वात् । 89 वाच्यार्थत्वनिषेधपरत्वात् - -त 2 वाक्यार्थ प्रतीतिशोभनं -त वस्तुतस्तु स एव नास्तीत्यलङ्कारप्रकरणे वक्ष्यते । नापि समासोक्तिः । विशेषणसाम्यात अप्रस्तुतम्य गम्यत्वाभावात् । अतः शब्दशक्तिमूलव्यञ्जनैव ध्वन्यपरपर्यायेति सिद्धम् । 1 • नानुपपत्तिशब्द प्रयोग — त 4 भावेनापि - त -
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy