________________
88
न चोभय शक्तिमूल व्यञ्जनायाम् भव्याप्तिः । तस्या अपि शब्दार्थोभयभिन्नभिन्नव्यापारत्वात् । ततोऽनवद्यं व्यञ्जनावृत्तिलक्षणम् ।
अलङ्कार राघवे
सा च व्यञ्जना त्रिविधा - शब्दशक्तिमूला - अर्थशक्तिमूला- उभयशक्तिमूला चेति ।
तत्र शब्दशक्तिमूला यथा
'सुवर्णचिह्नर्वियुतोरुपक्षैः शिलीमुखै राघवतो निरीतैः । संसृष्टमात्राणि महापलाशिपत्राणि वृद्धानि तथैव पेतुः ॥
अत्र शिलीमुखादिशब्दानां वाणादिरूपार्थेषु अभिधया प्रतीयमानेष्वपि या अर्थान्तरप्रतिपत्तिः जायते लघवात्, निर्गतैर्भूः संस्पृष्टमात्राणि जीर्णतरुपत्राणि पेतुरिति सा व्यञ्जनैव । नात्र अभिधा शङ्कनीया । तस्याः प्राकरणिकार्थमात्रपर्यवसानात् ।
ननु अप्राकरणिकार्थो वाक्यार्थशोभार्थं वक्तुर्विवक्षितः अभिघयैव प्रतीयता, किं वृत्यन्तर कल्पनया । शिलीमुखादिशब्दानां प्रयोगान्तरेषु भृङ्गादिवाचकत्वस्यापि सिद्धत्वादिति चेत्सत्यम् । तथाप्येतस्मिन् प्रयोगे एकस्य शब्दस्य अनेकार्थत्वं न युज्यते । अन्यायश्चानेकार्थत्वमिति न्यायात् ।
1 सुवर्णवर्णैर्विधुनोरुपक्षैः -- त
2 तदैव पेतुः - म
• एकस्मिन् - त
" अनेकार्थमिति न्यायात्म