________________
व्यञ्जनानिरूपणम्
व्यङ्ग्यार्थो वा अप्रकृतपदार्थाव्यतिक्तार्थो वा, अभिधेयाद्यर्थत्रयातिरिक्तार्थो वा, तात्पर्यार्थो वा, अन्वयातिरिक्तार्थो वा. अन्यो वा। नाद्यः। व्यञ्जना. विषयो व्यङ्ग्य इत्यात्माश्रयापत्तेः। न द्वितीयः। पदव्यङ्गयस्य व्यजनावृत्त्या पदार्थत्वेन अव्याप्तेः। न तृतीयः। व्यङ्ग्यत्वज्ञान विना अभिधेयादिव्यतिरिक्तत्वाज्ञानादात्माश्रयानतिवृत्तः। न चतुर्थः । तात्पर्यार्थी व्यङ्गयार्थ इत्युक्तत्वात् । तदोषतादवस्थ्यान्न पञ्चमः। व्यङ्गयत्वज्ञानं विना अन्वयव्यतिरेकानवगमात् । तदोषानपायात् । नात्यः। तस्यानिर्वचनात् । किञ्च कोऽयं शब्दव्यापारः । न तावत् शब्दधर्ममात्रम्। श्लेषालकारेऽति. व्याप्तः। 'श्लिष्टत्वस्य शब्दधर्मवात । नापि 'शक्तिरेव शब्दव्यापारः। इतरभेदसाधनेऽन्यतर सिद्धः। तस्मान्नेदं लक्षण 'युक्तम्। तत्रैव रीत्या आत्मवादिनं प्रत्यन्यनरासिद्धिः। तस्मात् व्यञ्जनावृत्तिलक्षण 'दुर्वचनमिति चेदत्रोच्यते-अन्वितेषु पदार्थेषु कविसंरंभविश्रान्त्यवधीभूतार्थप्रतीतिजनकश्लेषातिरिक्तशब्दार्थोभय भिन्नव्यापारो व्यञ्जनात लक्षणनिष्कर्षः। 'तत्र सङ्केनवाच्यानुपपत्त्यनुसन्धानगुणयोगानिमित्तत्वजनकतावच्छेदकं विव. क्षितमिति नात्माश्रयशावकाशः।
1 शब्दत्वस्य धर्मत्वात्-म 'वृत्तिरेव-त ३ ततो नेद-त
युक्तम् । नापि द्वितीय लक्षणं युक्तम् । शब्दव्यजकवादिन प्रति अन्यतरासिद्धेरेव । व्यायज्ञानं विना व्यङ्गयत्वज्ञानाभावात् आत्माश्रयश्च । नान्त्य
लक्षणं युक्तम् । तत्रैव रीत्या-त • दुर्वारमिति चेत् भन्वितेषु-म • मिन्नमिन्नव्यापारो-त १ अत्र-त