SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 86 अलङ्कारराघवे ध्येयम्। एवं प्रमाणेन 'व्यञ्जनास्वरूपसिद्धौ तस्य लक्षणमप्युच्यते । नन्वन्वितेषु पदार्थेषु वाक्यार्थोपकारार्थमर्थान्तरविषयश्शनन्यापारो व्यञ्चनावृत्तिरिति विद्यानाथः। 'अर्थस्यान्यार्थधीहेतुापारो वृत्तिरेव सेति' काव्यप्रकाशिका कारः। 'काव्यात्मना ध्वनिरिति' विद्याधरः । बनियञ्जनेति' पर्याय इश्युक्तम् । तत्र न तावद्विद्यानाथलक्षणं युक्तम् । अर्थशक्तिमूलव्यञ्जनायामव्याप्तेः। तम्याश्शब्दव्यापारस्वाभावात्। न च सापि सहकारिशब्दव्यापारोऽपि भवत्येवेति वाच्यम्। शमस्य तत्सहकारित्वे सिद्ध तस्यास्तव्यागारस्वसिद्धिः। सिद्ध च तस्यास्तद्व्यापारत्वे तस्य सहकारित्वसि द्धपरस्पराश्रयप्रसङ्गात् । ननु तर्हि शब्दप्रहगमर्थस्याप्युपलक्षणम् । तथा च शब्दार्थान्यतर. व्यापारो व्यञ्जनेति विवक्षितत्वात नोक्तदोष इति चेन्न। अन्यतरशब्देन एकैकविवक्षायां प्रागुक्ताव्याप्य ततिवृत्तः । उभयविवक्षायामुक्तव्यञ्चनयोरव्याप्तेः। अस्तु वा अन्यतरशब्दार्थनिर्वचनम् । तथाप्युभयशक्तिमूलव्यञ्जनायामव्याप्ति को वारयेत् । एकस्यास्तस्या उभयशक्तिमूलत्वेन शब्दव्यापारस्वाभावात् । अर्थव्यापारत्वाभावाच्च । ननु तस्याश्शब्दशक्तिमूलत्वेन शब्दव्यापारत्वम् अर्थशक्तिमूलत्वेन अर्थ. व्यापारस्वमिति अवच्छेदकभेदेनोभयव्यापारस्वमप्यविरुद्धमिति चेत् मैवम् । सिद्ध अवच्छेदकभेदे तस्यः तदुभयव्यापारस्वसिद्धिः। सिद्ध च तदुभय. व्यापारत्वेऽवच्छेदकभेदसिद्रिरिति परस्पराश्रयापत्तेरितरभेदसाधने अर्थव्यजकवादिन प्रति अन्यतरासिद्धेश्च ; नेदं लक्षणं युक्तम् । किश्च इदमर्थान्तरं नाम 1 व्यञ्जनास्वरूपसिद्धौ अधुना तस्याः-त • लक्षणमुच्यते-त , ध्वनियंत व्यापारः इत्युक्तम्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy