________________
व्यञ्जनानिरूपणम्
किं 'भक्तिव्यङ्गययोरभेदः, व्यक्तेर्भक्तिलक्षणं वा । उपलक्षणं वा । नाद्यः । भक्ते मुख्यार्थबाधानुसन्धानप्रवृत्तत्वात् । व्यक्तेस्तु वक्तृविवक्षानुसन्धानप्रवृत्तत्वात् । विरुद्धधर्मयोगित्वेन दद्दनतुहिनयोरिव भेदस्सिद्धः। न द्वितीयः । ध्वनिं लक्षीकृत्य भक्तिमस्वहेतुना इतरभेदसाधनेऽभिधामूलध्वनौ हेतुर्भागासिद्धेः । न तृतीयः । विवक्षितान्यपरवाच्यध्वनौ भक्त्युपलक्षितत्वाभावादतो न भक्तो ध्वनिविषयः ।
महिमभट्टन्तु ध्वनिरनुमानादनतिरिक्त इति प्रत्यपादि । तन्न युक्तम् । व्यङ्ग्यार्थव्याप्तहेतोरभावात् इत्युत्तरत्र वक्ष्यमाणत्वात् ।
यथा
विद्याधरस्तु — तादात्म्यतदुपपत्तिभ्यां मनुमानं प्रवर्तते । " वृक्षोऽयं शिशुपात्वात् '। 'वह्निमानयं प्रदेशो धूमवत्त्वादिति' । न चात्र गमकस्य शब्दार्थस्य गम्यार्थेन सह तादात्म्यमस्ति न वा ! ध्वनेस्सकाशात् शब्दार्थयोरुत्पत्तिरस्ति, येनानुमानं प्रवर्त्यतेत्याह । तच्चिन्त्यम् । न हि तादात्म्यतदुत्पत्तिभ्यामेव, अनुमानप्रवृत्ति: अतद्रूपेण कृत्तिकोदयेन रोहिण्यासक्त्यानुमान दर्शनात् । ततो नेदं दूषणम्। किन्तु तद्व्याप्तहेतोरभावादिति अस्मदुक्तदूषणमेव सम्यक् । तस्मात् अस्ति ध्वन्यपरपर्यायो व्यञ्जनाव्यापार इति सिद्धम् ।
1 भक्तिव्यक्त्योरभेद:2 भेदसिद्धि; - त
तत्रार्थों व्यञ्जकः शब्दस्सहकारीति 'काव्यप्रकाशिकाकारः ' ୮ शब्द एव व्यञ्जकः अर्थसहकारीत्यन्ये मन्यन्ते । पक्षद्वयेऽपि उक्तन्यायेन न विरम्य
ध्वनिं पञ्चीकृत्य — म
• क्लृप्तोऽयं -
85
:--त
-म
।
5 रोहिण्यासत्यनुमानदर्शनात् —