________________
84
अलङ्कारराघवे
तथा शब्दमात्रं वाच्याश्रयः। शब्दतदर्थवर्णसङ्घटनाः प्रतीयमानस्येति आश्रयभेदादपि तयोर्मेंदः । एवं कारणविषयभेदादपि मेदोऽप्यूडनीयः । एवं पृथव्यङ्ग्यार्थसिद्धौ तद्गोचरव्यञ्जनाव्यापारोऽपि सिद्ध एव ।।
केचिद्ध्वनिमिमम् अनिर्वाच्यमाचक्षते। किमिदम् अनिर्वचनीयत्वं नाम । किं लक्षणरूपनिर्वचनागोचरत्वं, माधुर्यादिवदनुभवैकवेद्यस्वेन अनिर्देश्यस्वरूपत्वं वा। वेदान्तिमते प्रपञ्चवत सदसद्विलक्षणत्वं वा। 'लोकोत्तरत्वं वा सहृदयहृदयसम्बद्यत्वं वा। नाधः। वक्ष्यमाणरीत्या लक्षणनिर्वचनात् । न द्वितीयः। ध्वनिरयमिति ध्वनिशब्देन निर्देश्यत्वात् माधुर्यमिदमिति तस्यापि निर्देश्यत्वेन दृष्टान्तासिद्धेश्च ।
ननु माधुर्णदे: तच्छब्दनिर्देश्यत्वे विशेषेण इदमीदृशमित्यनिर्वाच्यत्वमेवेति चेन। जलान्नालिकेरजलं मधुरम् । ततोऽपि गुडजलं मधुरम् ।ततोऽपि 'शर्करारसो मधुरः। ततोऽपि कान्ताधरो मधुरः । ततोऽपि सत्कवितारसो मधुर इति विशेषेणाऽपि माधुर्यादेः निर्देश्यत्वात् । न तृतीयः । ध्वनिरस्त्यत्र तत्र ध्वनिनास्तीति सत्वेनासत्वेन च व्यवहारात् तदसिद्धः। अविद्याकार्यत्वेन तदङ्गीकारे अभिधाया अप्यनिर्वचनीयत्वापत्तिः। न चतुर्थः । तादृशानिर्वचनीयस्येष्टत्वात्। अत एव न पञ्चमः। तस्मान्नानिर्वचनीयो ध्वनिः । . अन्ये तु ध्वनिविषयो भाक्तः इत्याचक्षते । तत्रापि वक्तव्यम् ।
1 'लोकोत्तरत्वं वा'-इत्येतत् 'म' प्रतौ नास्ति । . - सहृदयहृदयसन्देश्यत्वं वा-त ' तच्छब्दनिर्देश्यत्वेऽपि विशेषेण-त • शर्करारसो मधुरः। ततोऽपि मकरन्दो मधुरः। ततोऽपि सुधारसो मधुर।
ततोऽपि कान्ताधरो मधुरः-त