________________
व्यञ्जनानिरूपणम्
'तीरादिप्रतीत्युपपत्तौ लक्षणोच्चेदप्रसङ्गात् । ननु यथा जातौ गृहीताभिधाया: व्यक्तिपर्यन्तं दैर्ध्यमङ्गीक्रियते। व्यक्तेरप्यभिधेयत्वात्। एवं व्यङ्ग्यार्थपर्यन्तं दैर्ध्य मङ्गीक्रियताम् ।
*न च लक्षणोच्चेदापत्तिः। इष्टापत्तिरिति चेत् उच्चते। कार्यान्विते शक्तिग्रह इत्युपपादितम् । तथा च जातौ कार्यान्वयासम्भवात् तदन्वितव्यक्तावेव जात्यवच्छेदेन शक्तिमहात् तत्र अभिधाङ्गीकारेऽपि न दोषः। यदुक्तं लक्षणोच्छेनापत्तिरिष्टेति। तन्न युक्तम् । गङ्गापदस्य तीराधनन्तार्थेषु शक्तिमहासम्भवात् लक्षणाङ्गीकारावश्यंभावात् । किंश्च वाच्यन्याययोः स्वरूपभेदावश्यंभावात् नैक्यं युक्तम् । तयोस्स्वरूपभेदो यथाभवानिहत्थं हितपक्षपातनी
संस्तूयते 'रामकथैव लोके। हिताय लङ्कापुरराज्यमा
दत्तं त्वयाभूत् स्वपदं द्विषे तु॥ अत्र निन्दा वाच्या। प्रतीयमाना च स्तुतिः। तयोस्स्वरूपादेव भेदः । तथा कालभेदादपि भेदः। वाच्यं प्रथमतः प्रतीयते। व्यङ्गय तु तदनन्तरमिति ।
1 तिमिरादिप्रतीत्युपपत्तौ-म . न चैवं लक्षणोच्चेदापत्तेः-त • भवानिवोत्थं-त • राममुधैव-त