________________
अलङ्कारराघवे
मध्यमवर्णारब्धानामनुप्रासजातिरूणाम् अलङ्कारान्तर्भूतत्वात् । जातिजातिमतोरभेदात इति चेत् उच्यते। न तावत् ध्वनेः गुणान्तर्मावो युक्तः रसधर्मे गुणे रसादिध्वनेः अन्तर्भावानौचित्यात्। अलङ्कारेष्वपि वाच्यमात्रा पर्यवसितेषु श्लेषादिष्वन्त वायोगात् । समासोक्त्याद्यलकारविशेषेष्वन्तर्भावो वक्तव्यः। सोऽपि न युज्यते। व्यङ्गयप्राधान्ये ध्वनित्वव्यपदेशात् 'तस्योपसजनत्वे अलङ्कारस्वव्यपदेशात् गुणप्रधानभावविरोधापत्तेः। नन्वेवं तर्हि रूपकदीपकतुल्ययोगितापह्नवादिषु प्रतीयमानो उपमालङ्कारो वाच्योपस्कारक इत्यलङ्कारत्वं कथमिति चेन्न। कथमपीति बमः। तत्रापि गुणीभूतव्यङ्गयतयैव उपमायाः स्थितत्वात् । अत एव रसवत्प्रेयऊर्जस्विसमहिताद्यलङ्कारेध्वपि रसभावरसाभासभावाभासादीनामप्यङ्गत्वमेवेति न ध्वनेर्गुणालङ्कारान्तभांवो युक्तः।
यदनुमानमुक्तं ध्वनिर्गुणालङ्कारानतिरिक्त इति । तदपि न युक्तम् । काव्यात्मनो ध्वनेः कासकामनीयकहेतुत्वासम्भवादसिद्धेः। ननु रीतिरात्मा काव्यस्येति वामनवचनान्न ध्वनिः तदात्मेति चेन्न। रीतेमाधुयोंदिगुणानतिरेकात् तदात्मत्वायोगात् । वामनवचनं तु देवदत्तः चैत्रात्मेतिवदुपचारे. णाऽप्युपपद्यते। तस्मात् ध्वनिर्गुणालङ्कारातिरिक्त एव ।
ननु ध्वनिविषयोऽर्थो दीर्घदीर्घभिधाव्यापारेणैव प्रतीयताम् । किं ध्वनिनेति चेन्मैवम् । दीर्घदीर्घा भिधाव्यापारेणैव गङ्गायां घोष' इत्यत्र
1 तस्योपसर्जनत्वेऽलङ्कारत्वध्वनेगुंगालङ्कारान्तर्भावत्वं कथमिति चेन्न। कथमपीति
ब्रूमः।-'म' ' 'ननु पनिविषयोऽर्थों'- इति पदद्वयं 'त' पुस्तके नास्ति । ' अभिधारूपव्यापारेणैव-त .