________________
व्यजनानिरूपणम्
अत्रेदमनुमानमुक्तं विद्याधरेणक्रियेत चेत्साधुविभक्तिचिन्ता
व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसा साधयितु विलासैः
तावत्क्षमानामपदं बहु स्यात् ।। इत्येतद्वाक्यम् एतद्वाक्यवाच्यातिरिक्तार्थप्रकाशकमिति । तन्न तार्किकाणां मनो रञ्जयति। लक्षणया गौण्या वार्थान्तरस्य दुनिवरित्वात् । प्रागुक्तवाक्यमेतद्वाच्यव्यङ्ग्यातिरिक्तार्थप्रकाशकम् उक्तहेतोरित्याभासमानयोगक्षेमता च दुर्वारा स्यात् । एतद्वाक्यातिरिक्तवाक्यत्वंञ्चोपाधिः । न च पक्षमात्रव्यावर्तकविशेषणत्वेन पक्षेतरस्वमिति वाच्यम्। उपाधेसाध्येन सह अन्वयव्याप्तेसम्मवात् । घटादौ च व्यतिरेकव्याप्तिनिश्चयात। न चैवं पर्वतेतरत्वादिकमप्युपाधिस्स्यादिति वाच्यम्। तच्च व्यतिरेकसन्देहात। अन्यथा वहीतरत्वादिति बाधोनीतपक्षेतरोऽप्युपाधिन स्यात्। ततो नेदमनुमानं युक्तम्। किन्त्वस्मदुक्तानुमानमेवानुस्मर्तव्यमिति न ध्वन्यभावो युक्तः ।
नन्वस्तु नाम ध्वनिः। तथापि स. काव्यकामानीयक हेतुर्भवति न वा। नान्त्यः। अनागलस्तनायमानत्वेनानादरणीयत्वप्रसङ्गात् । आद्य गुणालबारान्यतरान्तर्भूतोऽस्तु । तथा च अनुमान-ध्वनिः गुणालङ्कारानति. रिक्तः, काव्यकामनीयकहेतुत्वात् । व्यतिरेके दोषवदिति। न च वत्तिरीतिषु व्यभिचारः। रीतीनां गुणानंतिरिक्तत्वात् । वृत्तीनामपि दीप्तमसृण- .
1 एतद्वाक्यवाच्यातिरिक्तवाक्यार्थप्रकाशक, वाक्य वात, कालिदासादिवाक्यवत् । वाक्यं चेदम् । तस्मात् वाच्यातिरिक्तार्थप्रकाशक मिति। -त तत्र व्याप्तेरसन्देहातू-त