SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ xn अलङ्कारराघवे दूषणस्य सङ्गतत्वात् । तत्रायं ध्वन्यभाववादिनोऽभिप्रायः। वृत्तित्वम् अभिधालक्षणादिव्यतिरिक्तवृत्तेन भवति। 'योग्यत्वे सति 'तनिष्ठ वेनानुपलब्धत्वात्। यद्योग्यत्वे सति तनिष्ठत्वेनोपलभ्यते न तत्र तदस्नि। यथा भूतलनिष्ठत्वेनानुपलभ्यमानो घटो भूतले नास्ति । तथा चायम् । तस्मात्तथेति ध्वन्यभावस्सिद्ध इति । अत्रोच्यते न तावदिदमनुमान युक्तम् । ध्वनिसत्तावादिनं प्रत्यन्यथासिद्धः। तन्मते तन्निष्ठत्वेन वृत्तित्वस्योपलभ्यमानत्वात् । किञ्च किं व्यङ्गयार्थमङ्गीकृस्य ध्वनिमपलपसि किं बानगीकृत्य । नायः। तदङ्गीकारे तद्गोचरव्यञ्जनाया भयङ्गीकारत्वात् । न द्वितीयः। व्यङ्गयार्थ । प्रतीतिविरोधप्रसङ्गात्। न च लक्षणयैव व्यङ्गयार्थप्रतीतिरिति वाच्चम् । 'अनुपपत्तरसत्वात्। सक्ष्यार्थप्रतीतावनुपपत्तेः कारणत्वात। न च वाच्यारम्यत्वमेवानुपात्तिः। अनुपपत्तानाविधत्वादिति नयविवेकदीपिका. कारवचनादिति वाच्यम् । वाच्यारम्यत्वेऽनुपपत्तिप्रयोगदर्शनात । अन्यथ वाच्यपरशब्दानां सर्वेषामपि लक्षकत्वप्रसङ्गः । अतो व्यङ्ग्यार्थप्रतीतिः न लणया. यथा च नाभिधया ' तथा वक्ष्यामः। तस्मात् वृत्तित्वमभिषा"लक्षणागौणीव्यतिरिक्तवृत्तिर्भवितुमहति। तदन्यतरव्यतिरिक्तत्वे सति तक्रियासाधारणधर्मभिन्नधत्वात । प्रमेयत्ववदित्यनुमानादपि ध्वनिसिद्धिः । यदि ध्वनिन स्यात् व्यङ्ग्यार्थप्रतीतिः निरालम्बा स्यात् । प्रकारान्तराभावस्योपपादितत्वात् वक्ष्यमाणत्वाच्चेति विपक्षे 'बाधकतर्कोऽयमनुसन्धेयः । 1 तनिष्टत्वेनानुपलभ्यमानत्वात्-त • अनुपपत्तेः सत्वात्-त ३ तशा च वक्ष्यामः-त • बाधकतर्कोऽनुसन्धेयः-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy