________________
काव्यप्रकरणम्.
ध्वन्यभाववादिनो
ध्वनिर्नास्तीति विप्रतिपत्तौ
आश्रयासिद्धिप्रसङ्गात् ।
८.
किन्त्वेवं विप्रतिपत्तिः । ' वृत्तिमभिधा लक्षणा गौणी व्यतिरिक्त वृत्ति न चेति । अत्र विधिकोट ध्वनिसत्तापर्यवसानं निषेधकोटौ ध्वनिर्नास्तीति । विधिकोटेत्वादप्रसिद्धिः । निषेधकोटेरभिधात्वादौ प्रसिद्धिः । यद्वा समिधालक्षणाङ्गगौण्यान्यत्वं वृत्तित्वासमानाधिकरणं, न चेति विप्रतिपत्तिः । अत्रापि विधिकोटेरभिधात्वादौ प्रसिद्धिः । निषेधको टेर्घटत्वादौ प्रसिद्धिः । तेन यद्विद्याधरेण ध्वन्यभाववादिनं प्रति दूषणमुक्तम् ।
ननु ध्वनिर्नास्तीति प्रतिज्ञाविरोधः ।
।
ध्वनिरित्यनेन विधिः । नास्तीत्यनेन निषेधः । तयोश्च परस्परविरोद्धयां रेकस्मिन् धर्मिणि तिमिरातपयोरिव सहानवस्थानदुस्थयोरेव निवारितत्वात् । न चात्र विरोधपरिहारप्रयोजकयोः देशकालयो र प्युपादानमस्ति । येन विरोधः समाधीयते । किञ्च प्रतीतः प्रतिषिध्यते ध्वनिः अप्रतीतो वा । आद्येऽपि क्वचिन्नास्ति, किं क्वचिदपि नास्तीति वा । प्रथमे सिद्धसाधनम् | अस्माभिरपि ध्वनेः क्वाचित्कनिषेधप्रतियोगित्वस्य 'अभ्युपगमात् । न द्वितीयः प्रतीतस्य सार्वत्रिकनिषेषप्रतियोगित्वव्याघातात् । अप्रतीतश्चन्नप्रतियोगिप्रतीतेः 'प्रति.. निषेध प्रति कारणत्वादिति तद्दूरतो निरस्तम् । ध्वनिरस्ति नास्तीत्येवमाकारेण विप्रतिपत्तराश्रयासिद्धया निरस्तत्वात् तादृशविप्रतिपत्तावेव तादृश
79
.
1 वृत्तित्वमभिधा - त
2
वृत्तिर्नवेति—त
• ध्वनितीति पर्यवस्यति विधिकोठे :- त
•
अभिधालगागौण्यान्यस्वं वृत्तित्वसमानाधिकरगं न वेति विप्रतिपत्ति:
एतेन – त
● अभ्युपगतत्वात् - र
7 प्रतिषेध प्रति — र
:-त