________________
78
जगत्यमुष्मिन्नुरुजीवनप्रदे किमस्ति तापाश्रितचातकावले ॥
अत्र विषयभूतरामस्य निगरणेन तस्य नीलमेघादभेदप्रतिपत्तेरध्यसायः ।
अलङ्कारराघवे
व्यञ्जनावृतिः
मथ व्यञ्जनावृत्तिर्निरूप्यते—
तंत्र ध्वनिर्नास्तीत्याहुः कतिचिदपरे भाक्तम् इतरे त्वनिर्वाच्यम् । वाच्यं कतिचिदनुमेयं कतिचनोति व्यञ्जनापर्याये ध्वनौ विप्रतिपतिं ' दर्शयामास साहित्यचिन्तामणिकारः ।
' शब्दार्थौ वपुरस्य तत्र विबुधैरात्माभ्यधायी ध्वनि - वाकैरिव कैश्चिदस्य न पुनस्ततापि सम्भाव्यते । कर्तु लक्षणमक्ष मैरयमनिर्वाच्यैः परैरुच्यते भाक्तोऽन्यैस्समुदीर्यत इति - विद्याधरोऽपि विप्रतिपचि प्रादर्शयत् ।
तत्रोभयत्र प्रथमा विप्रतिपत्तिः न युज्यते ।
1 व्यञ्जनापरपर्याये - त
• प्रदर्शयामास - त
3
समुदीर्यतेऽस्य हि ततो श्रमः स्वरूपं वयम् ॥
( एकावली - प्रथमोन्मेषः )