________________
काव्यप्रकरणम्
77
' सा द्विविधा । सारोपा साध्यवसाना चेति। तत्र विषयविषयिणोः अभेदप्रतिप्रत्त्या व रोपः। विषयनिगरणेन अभेदप्रतिपत्तिरध्यवसायः ।
तत्र सारोपा गौणी यथा
मन्दोदरीमानसनाथमाथीमन्दार एवाश्रितमण्डलस्य। वनातिशोभी कथमन्यथा स्यात् सपञ्चशाखार्पितकाद्भितार्थः ॥ भत्र रावणवैरिणि रामे मन्दारत्वमारोप्यते ।
यथा वा
.
गण्डाभोगप्रसृमरतरामन्दहासप्रभाते मह्यः कन्ये रुचिरमकरी गर्हिता जहुजैव । नो चेदेवं गुरुतमतयो मण्डलं 'चण्डयन्ती संदृष्टा स्यात्कथमिहमणी कर्णिका कण्ठभागे॥
अत्र सीतायां मन्दहासप्रभायां जलवीत्वमारोप्यते । साध्यवसाना गौणी यथा
विचित्र कोदण्डमनोहराकृतौ विनीलमेघे पुरतः प्रसीदति ।
1 खण्ड यन्ती-त