SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अलकारराघवे अत्र कोदण्डयोरित्यस्य नद्धारिणो रामलक्ष्मणयोः अजहल्लक्षणा ।। अत्र साम्प्रदायिकालङ्कारिका:- सादृश्य निबन्धा लक्षणा 'द्विधा । सारोपा साध्यवसाना चेति-लक्षणाया द्वैविध्य कल्पयन्ति। तन्न युज्यते । द्विविधाया अपि तस्या गौण्यामेवा तर्भावस्य वक्ष्यमाणत्वात् । अथ गौणी निरूप्यतेस्वाभिधेयात् सदृशार्थान्तरे अनुपपत्त्या वृत्तिः गौणी। अथ च वृत्तिगौणीत्युक्ते भूम्यादिरूपे या वृत्तिरभिधा तत्रातिव्याप्तिः। तदर्थमभिधेयात् अर्थान्तर इति । तावत्युक्ते लक्षणायामतिव्याप्तिः। तदर्थ सदृशेति । लक्ष्यार्थस्य सादृश्याभावात् तेन तन्निवृत्तिः। तावत्युक्ते गावश्शोभन्त इत्यत्र गोशब्दस्य स्वाभिधेयात् सास्वादिमव्यक्तिरूपार्थाद्यथाकथञ्चित्सदृशार्थान्तरे भूम्यादिरूपे या व्यक्तिरभिधा तत्रातिव्याप्तिः। तन्निवृत्त्यर्थ अनुपपत्त्येति। ननु तथापि 'गङ्गा पादाभ्यां तरती'त्यत्र गङ्गाशब्दस्य अनुपपत्त्या स्वाभिधेयात शीतलत्वादिना सदृशकुल्यारूपार्थान्तरे या लक्षणावृत्तिः तत्रातिन्याप्तिरिति चेन्न । 'सादृश्यविशिष्टार्थान्तरे या वृत्तिस्सा गौगी' तर्हि विवक्षितम् । तथा च न तत्र गङ्गापदम्य सादृश्यविशिष्टकुल्यादौ वृत्तिः। सादृश्यस्वरूपसत्वेऽपि शब्देन गङ्गासम्बन्धवदप्रतीयमानत्वात् । गङ्गासम्बन्धिकुल्याया एव शब्देन प्रतीयमानत्वात् । अतो न कोऽपि दोषः । 1 द्विविधा-त ' 'अनुपपत्त्या वृत्तिः गौणी। अथ च वृत्तिौणीत्युक्ते' इति भागः 'म' प्रतौ न दृश्यते। ' सादृश्यस्य स्वरूपसत्वेन गङ्गासम्बन्धिकुल्याया एव शब्देन प्रतीयमानत्वात् । अतो न कोऽपि दोषः । -'त'
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy