________________
74
मीनघोषौ प्रतिवसतः' इत्यत्र 'क्लृप्तलक्षणयैव प्रतीत्युपपत्तौ जहदजहल्लक्षणारूपभेदान्तरकल्पनाया गौरवोपपत्तिः ।
नवजलक्षणा वाच्यस्य कार्यान्वयो वाच्यः । प्रकृते गङ्गापदवाच्यस्य तीरस्य घोषप्रतिवासरूप कार्यानन्वया' नाजहल्लक्षणेति चेदुच्यते । नात्र मघोषप्रतिवासो वाक्यार्थः । अर्थभेदे वाक्यभेदापत्तेः । वाक्यभेदे च गङ्गापदस्य वाक्यद्वये मुख्य जहल्लक्षणाभ्यामेव प्रतीत्युपपतेर्जहदजहल्लक्षणासिद्धिः । किन्तु तदुभय भिन्नभिन्नप्रतिव। सो वाक्यार्थः । तथा च तीररूपवाच्यस्य तदुभयभिन्नभिन्नप्रतिबासरूपकार्यान्वयात् अजहल्लक्षणैव युक्ता । तथा 'विज्ञानमानन्दं ब्रझे' त्यादावपि विज्ञानपदस्य चैतन्यरूपवाच्यैकदेशापरि त्यागेनैव ब्रह्मरूपानन्दं लक्षयतीति नाजहल्लक्षणातो 'मुक्तिः । न चान्तःकरणवृत्तिरूपवाच्यैकदेश परित्यागस्याप्यसत्वात् जहल्लक्षणापि किन्नस्यादिति वाच्यम् । युगपदवृत्तिद्वयविरोधप्रसङ्गात्। न चैवं सति विनिगमकाभावः । विज्ञानमानन्दं ब्रह्मेति सामानाधिकरण्यमहिना चैतन्यरूप स्वार्था परित्यागस्यैव पुरतः स्फुरणात् 'विनिगमकत्वेनाजहल्लक्षणाया एव युक्तत्वात् । तस्मात्सिद्धं लक्षणाद्वैविध्यम् । भेदान्तराण्यपि अत्रैवान्तर्भवन्तीति विवरणोज्जाविन्यामस्माभिः अष्टमवर्णकाव्याख्यानसमये सम्यगुक्तं द्रष्टव्यम् ।
1 क्लृप्ताजहल्लक्षणयैव---त
2
न जहल्लक्षणेति
अलङ्कारराघवे
-त
विमुक्तिः- त
• स्वार्थपरित्यागस्यैव - त
• विनिगमक सत्वेना जहल्लक्षणाया-त