________________
काव्यप्रकरणम्
71
वाक्यार्थान्वयानुपपत्त्या व्यक्तिरूपार्थप्रत्ययात् । किञ्च रूढितो अन्यार्थलक्ष्यत्वे वा, लक्षणा फलतो वा, तदुभयसमुच्चयाद्वा, तयोरन्यतरो वा! नाद्यः । फललक्षणायामव्याप्तेः। न द्वितीयः । रूढ्या लक्षणा यामव्याप्तेः। न तृतीयः । असम्भवापत्तेः। न चतुर्थः । अन्यतरशब्दार्थनिर्वचनात् । अतो नाचं लक्षणं युक्तम् । अत: न द्वितीयतृतीये। न चतुर्थमपि युक्तम्। लक्षणाया.
शब्दे आगेपासम्भवेन असम्भवप्रसनात् । अनारोपे बाधकामावाच्च । नन्वर्थ एव लक्षकः शब्दम्य स्वार्थप्रकाशनामात्रेणोपरतव्यापारस्य पुनः व्यापारासम्भवेन लक्षकत्वानौचित्यादिति चेन्मैवम् । वाच्यान्वयानुपपत्तिप्रतिसन्धानानन्तरं पूर्वारग्र्वतशब्दसदृशशब्दान्तरस्य लक्षणाव्यापारागीकारे दोषाभावात् । न च शब्दान्तरकल्पने गौरवापत्तिश्शक्या। त्वन्मतेऽपि लक्ष्यार्थस्य मशब्दत्वापत्ती शब्दस्य तत्र तात्पर्यकल्पनावश्यंभावे तात्पर्येण पुनस्तस्यैव शब्दस्य लक्ष्यार्थबोधकत्वापत्त्या विग्म्यव्यापारापत्तौ शब्दान्तरकल्पनायाः तवापि तुल्यत्वात् । तात्पर्यस्य वृत्तनिर्वाह्यत्वाच्च। शब्दान्तरस्यैव तदुचितमिति न पञ्चमलक्षणमपि युक्तम्।
यत्तु शालिकानाथलक्षणलक्षणं 'वाच्यस्यास्यार्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः। तत्सम्बन्धवशप्राप्तस्यान्वयात् लक्षणोच्यते' इति । तदपि न युक्त। गामानयेत्यादौ गवादिशब्देष्यतिव्याप्तेः। तत्र गोशन. वाच्यजातेरानयनानुपपत्त्या तत्सम्बन्धिन्या गोव्यक्तेरन्वयात् तत्र गोशब्दस्य लक्षणापत्तेः।
1 व्याप्तिरूपार्थप्रत्ययात्-त . 'न द्वितीयः रूट्या लक्षणायाम याप्तेः' इत्येतत् वाक्यं 'म' प्रती लुप्तमस्ति ३ शब्देनारोपासम्भवेन-त