________________
70
अलकारराघवे
लक्षणा अथ लक्षणा निरूप्यते.'ननु 'मुख्यार्थानुपपत्तौ तद्योगे रूढितोऽथवा फलात् ।
अन्योर्थों यदि लक्ष्यो भवति तदा लक्षणाभिमता ॥ इत्येकावळीकारः ।। _मुख्यार्थबाधे तद्योगे रूढितोऽथप्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया । इति काव्यप्रकाशिकाकारः।
' सम्बन्धानुपपत्तिभ्यां प्रसिद्धार्थ प्रयोजनात् । 'मुख्येन यदमुख्यार्थो लक्ष्यते सा हि लक्षणा ॥
इति साहित्यचिन्तामणिकारः। . 'वाच्यार्थानुपपक्ष्या तत्सम्बन्धिन्यारोपितः शब्दव्यापारो लक्षणेति विद्यानाथः ।
सत्र न तावदाद्य लक्षणं युक्तम् । लक्ष्यो भवतीत्यत्र 'लक्ष्यशब्देन लक्षणाविषयत्व विवक्षायाम् आत्माश्रयप्रसङ्गात् । तेन प्रत्येतव्यत्वविवक्षायां गामानयेत्यादी गवादिशब्देष्वतिव्याप्तिः। तत्र जातिसङ्केतवादिमते तस्याः
1 एकावली-उन्मेषः २-श्लोकः-५ ३ फलतः-म ' काव्यप्रकाशे-उल्लासः २ कारिका-९ 'प्रयोजनम्-म
वाक्यार्थानुपपत्त्या-त • प्रतापरुद्रीये-काव्यप्रकरणे-७ कारिका ' 'लक्ष्य' इति शब्दो 'म' प्रतौ नास्ति