________________
अभिधालक्षणम्
69
सीता रमा केशव एव रामः शेषाविशेषेण स लक्ष्मणोऽपि । समित्रबन्धोस्तव पङ्क्तिकण्ठ!
न शोभते तेन सम विरोधः ॥ अत्र सर्वे शब्दा रूढाः।
योगपूर्विका यथा
'विकासिपङ्केरुहरम्यलोचनं पयोधरातीवमनोहराकृतिम् । सुवर्णबाणासनसायकान्वितं
कदा नु रामं कलयान्यहं दृशा॥ अत्र पङ्केरुहादयश्शब्दाः यौगिकाः । ननु पङ्कजादिशब्देष्वार्यप्रयोगसहितयोगस्यैव नियामकत्वोपपत्तेः न समुदाये शक्तिरिति वेदान्तविवरणाचार्यैरुक्तमिति चेन्न। सर्वत्र आर्यप्रयोगस्यैव नियामकत्वोपपत्तौ वृत्तिमात्रस्यैव दत्ताञ्जलितापंसनात् । इमाममिधां योग. रूढिरिति केचन व्यवहरन्तीति कृतं विम्तरेण ।
1 विकासपङ्केरह-त . (i) शब्देष्वर्थप्रयोगसहितयोगस्यैव-म
(ii) शब्दष्वार्यप्रयोगसहितस्यैव नियामकत्वोपपत्ते:-द ३ न समुदायशक्तिरिति-द • अर्थप्रयोगनियामकत्वोपपत्तौ-त 'व्यक्तिमात्रस्यैव दत्ताञ्जलिताप्रयोगप्रसङ्गात्-त