________________
.68
अलक्ष्कारराघवे
तेन नान्योन्याश्रयः। न च स्मरण कराने कल्पनागौरवमिति शङ्कयम् । सम्बन्ध्यन्तरदर्शनेन सम्बन्ध्यन्तरस्मृतेः क्लप्तत्वात् । किञ्च त्वन्मते पदान तावत् 'अर्थाभिधानशक्तिः। अर्थानामन्वयप्रत्यायनशक्तिः, तदाधानशक्तिश्च पदानामिति गौरवम् । अस्माकं तु पदानाम् अन्योन्यान्वितस्वार्थाभिधानशक्तिरेकैवेति लाघवम्। किञ्च प्रत्ययस्य प्रकृत्यान्विताभिधायित्वमेवास्तु । किम अर्थवैशसेन ? अतसिद्ध कार्यान्विताभिधायित्वं पदानामिति । अत्र कार्याशस्य अन्यलभ्यत्वेन तदपहाय अन्वितमात्रे शक्तिकरुपनमिति तत्त्वचिन्तामणिकारेण यदुक्तं तदपि न युक्तम् । · अन्वयस्याप्याकाङ्गादिसहकृतपदकदम्बकसमभिव्याहारादेव प्रतीत्युपपत्तेः। अन्यनभ्यत्वाविशेषादितरान्वयेऽपि शक्तिकल्पनाया अयोगात् ।
वस्तुतस्तु नास्मन्मते कार्यान्वयस्यान्यलभ्यत्वं कार्यसमभिव्याहारस्य गवादिपदविषयशक्तिविषयकार्यान्वयप्रतियोगिविशेषस्मरणमात्रोपक्षीणत्वेन मन्यथासिद्धत्वात्। तस्मात् प्राथमिकस्य व्युत्पत्यनुरोधात् कार्यान्विते स्वार्थे अभिधेति सिद्धम् । प्रपञ्चस्तु अस्मत्कृते तत्त्वचिन्तामणिखण्डने शास्त्रचूडामणौ द्रष्टव्यः ।
सा चाभिधा द्विधा । रूढिपूर्विका योगपूर्विका चेति । तत्र रूढिपूर्विका यथा
1 अर्धाभिधानशक्तेः-त 'प्रकृत्यान्वितस्वार्थाभिधायित्ववत् प्रकृत्यान्विताभिधायित्वमेवास्तु-त ' यदुक्तं भवति तदपि-त
हारस्य-त
• द्विविधा-त