________________
66
अलकारराधबे
न वाच्यवाचकभावादिरूपेणेति नात्माश्रयदोषशङ्कावकाशः। न च गौणी. लक्षणाव्यञ्जनानां व्युत्पित्सोः व्युत्पत्त्यनुप्रविष्टता येन तत्र अतिव्याप्तिशहा स्यात् । शब्दार्थव्युत्पत्त्यनन्तरभावित्वात् गौण्यादिप्रवृत्तः। ननु निरूढलक्षणायामतिव्याप्तिः। कुशलादिशब्दानां निपुण एवं व्युत्पत्तरिति चेन्न । 'व्युत्पत्तिशब्देन सम्बन्धप्रमाया एव विवक्षितत्वात् । कुशलादिशब्दे "व्युत्पत्तिसत्वज्ञातमुख्यस्य लाक्षणिके मुख्यग्रहरूपैवेति नोक्तदोषः ।
यद्वा निरूढलक्षणाव्यतिरिक्तत्वे सति शब्दप्रहणसमयसमुन्धः शब्दव्यापारोऽभिधा। समुद्वन्धत्वं सामग्रीरूपतापतिः। न चासम्भवः । शब्दश्रवणानन्तरं व्युत्पन्नं पुरुषं प्रति स्वेतरकारणविलम्बन कार्यरूपार्थप्रत्ययविलम्बाभावात् न गौण्यादा वतिव्याप्तिः। तस्याः शब्दश्रवण समयानुबन्धत्वात्
___ सा चाभिधा कार्यान्विते, न तु स्वार्थमात्रे युज्यते । ननु कार्यान्विते शक्तियुक्ता। तथा हि। नान्विताभिधानं युक्तम् । प्रतियोग्यानन्त्येन तदन्विते शक्तिमहासम्भवात् । न चानन्येऽपि आकाङ्क्षादेनियामकत्वं शङ्क्यम् । तथापि गामानय, बधान, पायय, मुश्चत्यानन्त्यादेरस्यैव गोपदस्यानन्तशक्त्यापत्तिः। अम्माकं तु अर्थक्यादेकैवेति लाघवम्। किञ्च, किं पदान्तराभिहितेन अन्विताभिधानं, किंवा अनभिहितेन। 'आधे किं पदान्तरमनन्विताभिध यि उतान्विताभिधायि ।
' व्युत्पत्तिशब्देन इति पदं 'त' पुस्तके नास्ति । २ व्युत्पत्तिस्त्वज्ञातमुख्यलाक्षणिके-द 'मुख्यमहरूपे वेति-त * अतिव्याप्तेः-त : समयानुद्वन्धत्वसामग्रीरूपत्वात्-द • शक्यम्-त ' आद्य किं पदान्तरमनन्विताभिधायि । नाद्यः-द