SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अभिधालक्षणम् किश्च कोऽयं सङ्केतयिता ! न तावज्जीवः । डित्यादिशब्देष्विव गवादिशब्देषु जीवानामिदं प्रथमयङ्केताभावात् कोशकारादीनामपि शब्दार्थसङ्ग्रहमात्रप्रवृत्तत्वेन तत्र सङ्केनायम्भवात् नापीश्वरः अनीश्वरादिमते शब्दानामभिधाभावप्रसादितरभेदसाधने अन्यतरासिद्धिप्रसङ्गाच्च । यत्त द्वितीयलक्षणं तत्र किमिदं व्यापारस्य मुख्यत्वम् । शब्दाव्यावृत्तित्वं वा। सादृश्यसम्बन्धाद्यनपेक्षत्वं वा। अभिधेयार्थप्रतीतिजनकत्वं वा। औत्पत्तिकत्वं वा। • गौणाद्यतिरिक्तत्वं वा। मन्यद्वा । नायः । शब्दलक्षकवादिमते लक्षणादावतिव्याप्तः। द्वितीये सम्बन्धशब्दो वाच्यसम्बन्धपरः। तथा च 'वाच्यमभिधेपमिति पर्यायादात्माश्रयप्रसङ्गः अत एव न तृतीयः। लक्षणादावतिव्याप्तेश्व। न चतुर्थः। प्रवीणकुशलादिशब्दगतनिरूढलक्षणायामतिव्याप्तः। न पञ्चमः। लक्षणागौण्यादिलक्षणस्य अभिधागत्वेन अन्योन्याश्रयप्रसङ्गात्। न षष्ठः। तदनिर्वचनात्। एतेन लक्षणाद्युपजीव्यः शब्दव्यापारोऽभिधेति लक्षणमपि निरस्तम्। अभिधात्वस्यैव उपजीव्यतावच्छेदकत्वे. आत्माश्रयानतिवृत्तिः। तदतिरिक्तावच्छदकसम्भवे लाघवात् तदेव लक्षणमस्तु। किमनेन। वस्तुतः तदपि दुर्निर्वचमेव । तस्मादभिधालक्षणं 'दुर्निर्वचमेवेति चेदत्रोच्यते 'व्युस्पित्सोः व्युत्पत्यनुप्रविष्ट शब्दव्यापारो अभिया। व्युत्पत्ति. श्शब्दार्थयोस्सम्बन्धग्रहणरूपा। स च सम्बन्धः सम्बन्धत्वेनैव उपस्थितो' 1 सङ्केताभावात् इत्यारभ्य अन्यतरासिद्धि इति पर्यन्तो भागः 'म' प्रतौ नास्ति । ३ गौणव्यतिरिक्तत्वं वा-द ३ दुनिर्वचमिति–त 'दुनिर्वचमिति चेत्-द ' शब्दव्यापारलक्षणा अभिधा-त ७ सम्बाधग्रहरूप-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy