________________
काव्यप्रकरणम्
तयोरभेदश्शनीयः। अतिप्रसङ्गप्रसङ्गस्य प्रागेवोक्तत्वात्। 'तस्मासिद्धश्चतस्रो वृत्य इति ।
तथा :च रसावस्थानसूचका रचनाश्रिना वृत्त्योऽपि चतुर्विधाः । कैशिक्यारभटीसात्वतीभारतीचेति। रचनाया रसाभिव्यञ्जकत्वं सुप्रसिद्धम् । रसाननुगुणरचनायाः दोषत्वोक्तेः। "वैदर्भी प्रभृतयस्तु रीतिविशेषा एव । न वृत्तिष्वन्तर्मवन्ति। .
अभिधालक्षणम् तत्र अभिधा निरूप्यते. ननु 'सङ्केतितार्थगोचरश्शब्दव्यापारो अभिधेति' "विद्यानाथः । 'यस्तस्य मुख्यो व्यापारस्तस्यासायभिधा स्मृते ति साहित्यचिन्तामणिकारः
इदमेव एकावळीकारस्याप्यभिहितम्। न तत्र विद्यानाथोक्तं लक्षणं युक्तम् । 'छत्रिणो गच्छन्ती'त्यजहलक्षणायामतिव्याप्तः। तस्यास्सङ्केतितवाच्यगोचर. शब्दव्यापारस्वात् । ननु सङ्केतितमात्रगोचरत्वं लक्षणे विवक्षितमिति चेदुच्यते। किं भवान् व्यक्तिसकेनवादी किं वा जातिसङ्केतबादी ! उत जात्यवच्छिन्नव्यक्तिसङ्केतवादी। अथवा जात्याकृत्यवच्छिन्नव्यक्तिसङ्केतवादी। नाद्यः । गवादिशब्दाभिधायाः असङ्केतितजातिगोचरत्वे नासम्भवापत्तेः । न
। तस्मात्सिद्धं चतस्रो वृत्तय इति-त • रसाननुगुणवर्णरचनाया दोषत्वमुक्तम्-ल (प्रतापरुद्रीये काव्यप्रकरणे
अभिधालक्षणकथनावसरे उक्तम् ' वैदर्भीप्रभृतिस्तु रीतिविशेष एव, न वृत्तिष्वन्तर्भवति-द • प्रतापरुद्गीये-काव्यप्रकरणे अभिधालक्षणकथनावसरे मुख्यं तमर्थमाहुः साक्षाद्यत्रास्य सङ्केतः। व्यापागेऽपि च मुख्योऽभिधीयतेऽस्यामिधारूपः ।।
(एकावली-द्वितीयोन्मेष:-१) • गवादिशब्दाभिधायाः सङ्केतित जातिगोचरत्वेनासम्भवापत्तेः-द ...