SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 62 अलक्कारराघवे सादृश्यनिबन्धनासम्बन्धनिबन्धना चेति पुरातनालङ्कारिकाणां वचनमपि निरस्तं बोध्यम् । किञ्च बहुवैषम्यसद्भावान गौणीलक्षणयोरभेदः । तथा हिलक्षणायां सम्बन्धिसम्बन्धयोस्स्मृतयोरपि सम्बन्धिमात्रान्वितार्थे वाक्यतात्पर्यमवधार्य सम्भूयकारिवेन 'पदस्यापि सम्बन्धिमात्रे तात्पर्यकल्पनाया अयुक्तत्वात् 'सामानाधिकरण्यानुपपतेः । सादृश्यमात्रेऽपि तत्कल्पनायोगात् । तस्मात् सामानाधिकरणप्रयोगबलादेव सादृश्य विशिष्टान्वितार्थे वाक्यतात्पर्यमवधार्यत इति तात्पर्यज्ञानसमय एव पदस्योपयोगः । लक्षणायां त्वपेक्षाबलात् सम्बन्धिमात्रान्वितार्थे वाक्यतात्पर्यात् सम्बन्धिमात्रपदतात्पर्यम् इति पश्चादेव पदस्यो पयोगः । " ननु यत्र गौणे 'सामानाधिकरणप्रयोगो नास्ति अ......... मिरीत इत्यादौ तत्र सादृश्यमात्र एव तात्पर्य स्यादिति चेन्मैवम् । सामानाधिकरणप्रयोगविषये तथैव तात्पर्यावधारणात् तात्पर्यावधारणौचित्यात् । ततो बहुवैषम्य सद्भावात् गौणी लक्षणातो भिनेत्यस्माभिः शास्त्रचूडामणौ स्पष्टमुक्तं द्रष्टव्यम् । | अत एव व्यञ्जनाया अपि न लक्षणायामन्तर्भावस्सम्भवति । वक्ष्यमाणप्रकारेण तयोर्लक्षणभेदसत्वात् । न चानुपपत्तिरूपबीजैक्यमात्रेण * पदसम्बन्धिमात्रतात्पर्यमवधार्यते । गौण्यां तु गौणवदप्रयेोगादेव सादृश्यो - पेतवाक्यतात्पर्यमवधार्यते । स आन्तरोपात्ततया पौनरुक्त्यापत्तेः । सदृशमात्र तात्पर्यकल्पनायाः अयुक्तत्वात् त वामानाधिकरण्यादुपपत्तेः द 2 ' विशिष्टपदार्थे वाक्यतात्पर्यम् - —त • सम्बन्धिमात्रार्थे वाक्यतापत् — द • सम्बन्धमात्रे पदतात्पर्यम्ननु गौणे-द ' सामानाधिकरणप्रयोगे........ता........इत्यादौ - म • नवानुपपत्तिरूप - त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy