________________
60
अलङ्ककारराघवे
रूपयस्व तात्पर्यार्थत्वेन कथं प्रतिपादनमिति वाच्यम् । मतान्तगभिप्रायेण तदुपपत्तेः । अत एवोक्तं काव्यप्रकाशिकाकारेण-'तात्पर्यार्थोऽपि केषुचित् 'इति ।
ननु काव्ये संसर्गरूपार्थे कविसंरंभाविश्रान्तौ-"अव्यङ्गय त्ववरं स्मृतम् इति काव्यप्रकाशिकाकारवचनं कथमिति चेन। अनुदरा कन्येतिवदस्फुटव्यङ्ग्यत्वस्यैव तेन विवक्षितत्वात। तदुक्तमहारसुधानिधिकारेण
'अनुल्बणत्वात् व्यङ्ग्यानामव्यङ्गय चित्रमीरितम्।
व्यङ्गयस्यान्ततविच्छेदः काव्ये कुत्रापि नेष्यते' इति। अतः तात्पर्यार्थो व्यङ्ग्यार्थ इति सिद्धम् । तदुक्तमेकावलीकारेण- तस्मात् व्यञ्जनापरपर्यायं तात्पर्य कविभिरङ्गीकृतं नान्यदिति । ध्वन्याचार्यैरप्युक्तम्-'यत्वभिप्रायविशेषरूपं व्यङ्गयं शब्दार्थाभ्यां प्रकाशते। तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानम्' इति कृतं विस्तरेण । प्रकृतमनुसरामः।। "शब्दस्य वृत्तयोऽभिधा लक्षणा गौणी व्यञ्जना भेदाच्चतस्रः। तत्र प्राचीनालङ्कारिकास्तु-गौणी लक्षणायामेवान्तर्भवति. सम्बन्धानुपपत्तिमूलस्वात इत्याहुः। तन्न युक्तियुक्तम्। गोण्या लक्षणातो भिन्नत्वात् । ननु
' काव्यप्रकाश:-प्र. उल्लास:-६ श्लोकः . काव्यप्रकाशः प्रथमोल्लासः-५ श्लोकः रत्नापणसमन्विते प्रतापरुद्रीये-काव्यप्रकरणे-वाचकलक्षकव्यजकत्वेन त्रिविधं शब्दजातम्-इति प्रकरणव्याख्यासन्दर्भ-व्याख्यायामुघृतमेतत् पद्यम् । एकावलीकारवचनं, तथा ध्वनिकारवचनमपि तत्रैव उद्धृतमस्ति। . (i) शब्दस्य वृत्तस्य वृत्तयोऽभिधा-म (ii) शब्दस्य वृत्तयोऽप्यमिधा-त