SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकरणम् 59 न विमुञ्चति सामर्थ्य वाक्यार्थेऽपि पदानि यः।। वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति च स्थितिः ॥ इति। पक्षद्वयेऽपि संसर्गो न तात्पर्याथः। तस्याः तात्पर्यरूपत्वाभावात् । किं तु काव्ये शब्दानां संसर्गमात्रे कविसरम्माविश्रान्तः। तद्ववतिरेकेण प्रतीयमानः सामाजिकास्वाद्यमानानन्दिरूपरसादिरेव तात्पर्याथः। तत्प्रत्यायकपदार्थशक्तिरेव तापर्य कविसमयसिद्धम्। सा च नाभिधारूपा। स्वार्थेषु सहेतानवतारात् । नापि लक्षणा। मुख्यार्थिवाधाधभावात् । तस्मातात्पर्य वक्ष्यमाणलक्षणव्यसनादत्तेः नामान्तरं भायामिप्राधावपरपर्यायम् । ततस्ताल्पर्यार्थो व्यायार्थ एव। अत एव काव्यादौ संसर्गरूपार्थो वाक्यमहिम्नाप्रतीयते। न तात्पर्येण । वाक्यं नाम-आकाङ्खादिमत्वे सति पदानां पदार्थानां वा समन्वयबोधनशक्तिः । न तु तादृशपदसमूहः। तरूगामिव पदानां युगपदेकदेशकालसम्बन्धाभावात् तेन तहलायातसंसर्गरूपार्थो न तात्पर्या धीनः। ततु तात्पर्यमुद्देशरूपः पुरुषधर्मरूः इत्युदयनादयो मन्यन्ते। तात्पर्य 'वाक्यधर्म इति मीमामकाः। पदार्थधर्म इत्यालङ्कारिकाः। अस्तु वा। वैमासकीमतानुसारेण अर्थान्तराभावे संसर्गोऽपि तात्पर्याथः। तत्सद्भावे तु स एव तात्पर्यार्थो न संसर्गरूपः। तथा सति काव्ये संसर्गमात्रे 'विश्रान्ते तदतिरिक्तो रसादिरेव न तात्पर्याथः । न चैवं प्राचीनालङ्कारग्रन्थेषु संसर्ग 1 संसर्गमात्रकविसंरभाविश्रान्तेः-द ' पदानां वा समन्वयवोधनशक्ति:-म 'न तादृशपदसमासाः-म • वाक्यार्थधर्म इति-'त' 5 नैयायिकमतानुसारेण-द • 'तत्सद्भावे तु' इत्यारभ्य 'न तात्पर्यार्थः, इति पर्यन्तो भागः 'म' पुस्तके न दृश्यते ' विधाते-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy