________________
अलङ्कारराघवे
शङ्कयम्। तस्य मौनिमनसाऽनुसन्धीयमानस्यान्तरध्वनिवत् तदीयश्लोत्रेणैक बहिरुच्चारणाभावेऽपि गृह्यमाणत्वात् ।
स च शब्दो द्विविधः । स र्थको निरर्थकश्चेति। यत्सम्बन्धिकावन्छेदकं प्रतिपाद्यत्वं सः सार्थकश्शब्दः। प्रतिपाद्यत्वं नामलिङ्गत्वानवच्छिन्नजनकताश्रयज्ञात'करणजन्यप्रतीत्या यस्याज्ञानं निवर्त्यते तत्त्वमिति सङ्केपः। तत्र सार्थका भवादिशब्दाः। निरर्थका हुमादिशब्दाः। तत्र सार्थकश्चतुर्विधः। वाचको लक्षको गौणो व्यञ्जकश्चेति । तथा अर्थोऽपि वाच्यलक्ष्यगौणव्यङ्ग्यभेदाच्चतुर्विधः। तात्पर्यार्थस्तु व्यय एवान्तर्भून: न पृथग्भूतः ।
ननु ‘पदानामाभिधायिनां विशिष्टार्थप्रत्यायनी शक्तिरेव तात्पर्यमिति' मीमांसकाः। तथा सति'-देवदत्त गामानय दण्डेन, इत्यादी देवदत्तकर्तृकगोकर्मकदण्डकरणकानयनरूपविशिष्टणिस्तात्पर्यावगतत्वात् तात्पर्यार्थ इत्युच्यते। स तु न व्यङ्ग्य इति कथमुच्यते। तात्पर्यार्थो व्यङ्ग्यार्थ इति चेदुच्यते। अन्विताभिधानवादिमते पदानां विशिष्टार्थप्रत्यायनशक्तिरभित्रैव न तात्पर्यरूपा। तत्र सङ्केनप्रसरात् । अभिहितान्वयवादिमतेऽपि पदानां पदार्थलक्ष्यमाणसंसर्गरूपवाक्याथै लक्षणरूपैव। तदुक्तं वार्तिककारपादैः
1 करणजन्यप्रत्ययस्याज्ञान-त ' सार्थकश्शब्दः चतुर्विधः-त. 'विशिष्टार्थप्रत्यायनशक्तिरेव-द . • व्यथाअर्थ इतीति चेदुच्यते-द. - • 'पदानाम्' इति पदं 'त' पुस्तके न दृश्यते