________________
काव्यप्रकरणम्
बाच्चम् । तथा चात्माश्रयः। उक्तवर्णलक्षणेषु शब्दपदाप्रवेशे क्रमादावतिव्याप्ति को वारयेत् ! द्वितीयलक्षणे च स्वनाशक्षणे वर्णस्यैव संस्कारजनकत्वे नासम्भवापत्तिश्च । जनकतावच्छेदकस्य दुर्निर्वचत्वाच्च। तस्मात् शब्दलक्षण दुर्निर्वचमिति चेत्-भत्रोच्चते।
'साक्षात् श्रोत्रेन्द्रियजन्यज्ञानकर्मकारकवस्तुफलकसन्तानपक्तिवस्तुत्वं शब्दत्वमिति शब्दसामान्यलक्षणम् ।
मन शदद्वारा श्रोत्रेन्द्रियजन्यज्ञानकर्मकारकवस्तुफलकसन्तानपतितार्थेऽतिव्याप्तिनिरासाय साक्षादित्युक्तम् । प्रथमादिशब्देष्वतिव्याप्तिनिरासार्थ तादृशवस्तुफलंकसन्तानपतितवस्तुत्वमित्युक्तम्। न च ध्वन्यात्मकशब्देष्वति. व्याप्तमिदं लक्षणमिति वाच्चम्। ध्वनेरपि वर्णात्मकशब्दत्वेन लक्ष्यकोटावेवान्तर्भावात् । तत्र 'वर्णविशेषानभिव्यक्तिस्तु व्यञ्जकाभावप्रयुक्ता। मत एवाह मायकार:5'मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे। इति । न च मौनिश्लोकादावव्याप्तिः । तस्यापि कदाचित् पुरुषान्तर श्रोत्रपतितत्वेन लक्षणसम्भवात। न चोत्पन्ननष्टमात्रे मौनिश्लोकादावव्याप्तिरिति
--
-
1 संस्कारजन्यत्वे नासम्भवापत्तिश्च-त * दुर्निर्वचत्वात्-म ' प्रथमादिशब्देष्वव्याप्तिनिरासार्थ-द । • तत्र विशेषानभिव्यक्तिस्तु-म 5 शिशुपालवधम्-सर्ग-६- श्लो-२० 'श्रोत्रपतितत्वेन तत्र लक्षणसम्भवात्-द