SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 56 अलबकारराष 'शब्दप्रपञ्चव्यतिरिक्तप्रपञ्चो रूपप्रपञ्च इत्यन्योन्याश्रयात् । ननु शब्दव्यतिरिक्तत्वे सति गुणाघन्यतमत्वं रूपप्रपञ्चत्वमिति चेन्न । आत्माश्रयप्रसङ्गात् । ननु ध्वनिन्यतिरिक्तत्वे सति भाकाशविशेषगुणश्शब्द इति चेन्न । शब्दद्रव्यवादिमते असम्भवापत्तेः। ननु 'उच्चार्यमाणत्वे सति अर्थप्रतीतिबनकश्शब्द इति चेन्न । मौनिश्लोकादावन्याप्तेः । न च पुरुषान्तरोच्चारणं तत्रापि सम्भवतीति वाच्यम्। तथाप्युत्पन्नमात्रनष्टे तत्रैवाव्याप्तेः। ननु उच्चार्यमाणत्वे सत्यर्थप्रतीतिजनकजातीयत्वं तत्त्वमिति चेन्न । शब्दत्वजात्या साजात्यविवक्षायाम् आत्माश्रयापत्तः। गत्वाद्यवान्तरजात्या साजात्यविवक्षायां तदनङ्गीकारवादिनं प्रति असम्भवापत्तेः। सजातीयशब्देन साधर्म्यविवक्षायामतिप्रसङ्गात् । नन्वस्तु तर्हि वर्णपदवाक्यप्रबन्धान्यतरशब्द इति चेदुच्यते । अन्यतरशब्देन 'सर्वविवक्षायामसम्भवः। एकैकविवक्षायामव्याप्तिः। किञ्च पदघटकशब्दो वा, पदार्थप्रतीत्युपयोगि संस्कारजनकत्वं सप्रतियोगिशब्दो वा, तत्प्रतीत्युपयोगिस्फोटाभिव्यञ्जकशब्दो वा, समासावयवातिरिक्तपदावयवशब्दो वा। ध्वनिव्यतिरिक्तत्वे सति श्रोत्रग्राह्यशब्दो वा वर्ण इति वर्णलक्षणं ' शब्दप्रपञ्चव्यतिरिक्तप्राचो इत्यारभ्य रूपप्रपञ्चत्वमिति चेन्न इत्यन्तोभागः 'त' पुस्तके न परिदृश्यते। 'आकाशगुणश्शब्द:-म द्रव्यगुणाद्यन्यतमत्वं-द • गवाद्यवान्तरजात्या-द । सविवक्षायाम्-द • 'संस्कारजनकत्वम्' इत्यारभ्य 'तत्प्रतीत्युपयोगि' इति पर्यन्तो भागः 'त' पुस्तके न दृश्यते।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy