SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकरणम् प्रतिपत्तिजनकत्वं तत्त्वमिति चेन्न। वाक्यावृत्तिवादिमते तत्रैवाव्याप्तेः। ननु वृत्तितात्पर्यान्यतरवत्वे सतीति विशेषणात् नोक्तदोष इति चेन्न। उपसर्गेष्वव्याप्तेः। ननु उपसर्गो न पृथक्शब्द इति चेन्न। 'प्रतिपर्यनव' इत्यादौ पृथक्शब्दत्वदर्शनात। ननु 'तदुभयद्योतकत्वान्यतरत्वे सति इति विशेष्यमिति चेन्न। हुमादिपदेष्वव्याप्तेः। तेषां सामभागपरिच्छेदकत्वेन नैरर्थक्यात् । अत एव श्रवणत्वे सत्यर्थवोधकश्शब्द इत्यपि निरस्तम् । विनैवोच्चारणं मनस्यनुसन्धीयमानमौनिशब्दे अव्याप्तेश्च । ननु तादृशत्वे सति अर्थबोधक नातीयत्वं श्रवणग्रहणयोग्यत्वं वा तल्लक्षणमिति चेन्न। शब्दत्व. जात्या साजात्यविवक्षायामात्माश्रयापत्तेः। जात्यन्तरेण साजात्यविवक्षायाम् अतिप्रसङ्गात् । तादृशजात्यनङ्गीकारवादिनं प्रति इतरभेदसाधनेऽन्यतरा. सिद्धिश्च । अर्थबोधजनकत्वं नाम तथा चार्थबोधजनकताश्रवणग्रहणयोग्यता. वच्छेदकत्वम् । तदेव लक्षणमस्तु। तदसत्वे लक्षणस्यैव दुर्महत्वात् । मज्ञानासिद्धिप्रसङ्गः। ननु तर्हि सुप्तिङन्यतरान्तश्शब्द इति चेन्मैवम् । वाक्यप्रबन्धयोरव्याप्तेः। पदानामेव सुवाद्यन्ततया वाक्यादौ तदभावात् । ननु सङ्घातव्यतिरिक्तसङ्घाताभावात् पदसलातरूपवाक्यस्यापि तदन्तत्वम् अस्त्येवेति चेन्न । तथापि सुवादिप्रत्ययानां सुबाद्यन्तत्वाभावेन तत्राव्याप्तः। एतेन 'सविभक्तिकत्वे सति अर्थबोधकश्शब्द' इत्यपि निरस्तम् । प्रागुक्तदूषणानतिवृत्तेः । ननु रूपप्रपञ्चव्यतिरिक्तप्रपञ्चः शब्द इति चेन्न । 1 तदुभयद्योतकान्यतरत्वे-त ' अर्थबोधजनकत्व मबोधक-धं नाम-त ' योग्यतावस्छेदकसत्वे तदेव-म • दुर्ग्रहणत्वात्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy