________________
३.४३] तृतीयोन्मेषः
१९९ निर्याय विद्याथ दिनादिरम्याद्विम्बादिवाकस्य मुखान्महर्षेः ।। पार्थाननं वह्निकणावदाता
दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ १७३ ।। क्वचित्पदार्थोपमायामुपमेयानामुपमानानां च समसंख्याकानां समूहद्वये प्रथमं विवक्षितसमहसंख्याभेदसमाहि (त)द्वित्वमेव समाश्रित्य परस्परसाम्यसमन्वयादुपमानोपमेयभावमभिधातुमेकस्मिन् वाचके प्रयुक्ते समुदायधर्माणां समुदायपूर्वकत्वात्तु पश्चादेतेषां प्रत्येक स्वसंबन्धिनं प्रति साधारणधर्मसंबन्धसामर्थ्यादुपमानोपमेयभावः पर्यवस्यति । यथा
___“चुम्बन कपोलम्” ॥१७४ ।। इत्यादौ । अत्र स्पर्शोल्लसदिति क्रियाविशेषणं चेति द्वाभ्यां प्रकाराभ्यामुभयनिष्ठतयान्योन्यं (साधारणधर्मसंबन्धादुपमानोपमेयभावः)। __क्वचित्पदार्थोपमायाम् एकस्य वस्तुनः बहुविधपदार्थविशेषणविशिष्टतया मुख्यभावेन वर्ण्यमानवृत्तेरुपमेयत्वे तावन्मात्रविशेषणः स्वैविशिष्ट पदार्थान्तरमुपमानतां यदा प्राप्नोति, तदा तयोरुभयोरपि तथाविधयैव परस्परसाम्यधर्मतयाऽन्वयात् उपमानोपमेयभावः। तदभिधानार्थमिवादिरेव प्रयुज्यमानतामर्हति। तद्विशेषणानां परस्परसाम्यसंबन्धाभिधाने पूर्वोक्तव युक्तिरनुसन्धेया। यथा
“पाण्डयोऽयम ” इत्यादौ ॥१७५ ॥ तदेवंवि(ध)पक्षे अभिधाप्रकारवैचित्र्यात् वाचकशक्तिवैचित्र्याच्च सर्वमेतदुपपद्यते । उपमादोषाणां तु लक्षणस्यैव सुघटितत्वात् दूरोत्सारितत्वेन