________________
[३.४४
२००
वक्रोक्तिजीवितम् नेयार्थादिवदपरिगणनम् ।
(विवक्षाविषयो धर्मश्चेतोहारी यदोच्यते ।
तदा दोषा भवन्त्येते दूरोत्सारितवृत्तयः) ॥ १७६ ।। इत्यन्तरश्लोकः । ___ एवं प्रस्तुताप्रस्तुतवाच्यसादृश्यजीवितमुपमाख्यमलंकरणमभिधाय समानच्छायाप्रायं वाचकसादृश्यसर्वस्वं श्लेषमभिधत्ते
तदेकशब्दवाच्यत्वमर्थयोर्धार्यते द्वयोः । श्लेषाभिधानोऽलंकारः तादृग्वाचकवाच्यता ॥४४॥ तदेकशब्दवाच्यत्वमित्यादि तदित्यनेन श्लेषोपनिबध्यमानवृत्तेर्वाचकस्य परामर्शः।
तेन तस्यैवोक्तस्य शब्दस्य पदात्मनो वाचकत्वम् । तेन “वाच्यत्वम्” अभिधेयत्वम् । “अर्थयो:” = वस्तुनोरभिधीयमानयोः द्वयोः सत्यभ तयोः वाक्यार्थतात्पर्यस्वरूपयोः “धार्यते” यस्मिन् स श्लेषाभिधानोऽलंकारः । “तादृग्वाचकवाच्यता” =स इव दृश्यते यः स तादृगुच्यते, तादृकचासौ वाचकश्च स तथोक्त:, तेन वाच्यता वाच्यत्वं अभिधेयत्वम् । तादृशार्थवाचकत्वं यत्र यस्मिन् सोऽपि श्लेष उच्यते । य: श्रुतिसाम्यात् स इवानुभूयतेऽसौ तादृगुच्यते । पुनः स एव स्वरादिधर्माणामुदात्तादीनामन्यत्वाद् भिद्यते । अत्र परस्परापेक्षत्वमेव द्वयोरपि सादृश्यम् । यादगेकोऽस्य वाचक: तादृक् एवासाविति समाश्रितो वास्तवपदवृत्तिर्वा यत्रैकस्मिन् क्वचिद्वाक्यकदेशे, तदेकशब्दवाच्यत्वं द्वयोः । अथ तयोः तादृग्वाचकवाच्यत्वाविशेषेऽपि श्लेष एवेति कथम । अतस्त्रिभि: प्रकारैस्त्रिविधैः पदार्थैरेव तत्प्रतीतेः । अर्थश्लेषः शब्दश्लेषः उभयश्लेषः इति । तदेवंविधस्यास्य प्रतिपादक किमित्याहः