________________
१९८
वक्रोक्तिजीवितम्
[३.४३
कार प्रतीति मुत्पादयति, तत्र तदुपपादकानामिवादीनां गतार्थ - त्वादप्रयुक्तिः । यथा
महीभृतः पुत्रवतोऽपि ॥ १७० ।।
यत्राप्यलंकारान्तरभेदनिबन्धनमन्तरेण पदार्थ परिवर्तनादौ कविकौशलोल्लासितातिरिक्त साम्यसमन्वय माहात्म्यादुपमानोपमेयभावावगतिरुद्भिद्यते, तत्राप्यभिधानप्रकारवैचित्र्य वशाद लंकरणविच्छित्तिरेव तद्विदां तत्प्रतीतिकारिणां चमत्कृतिकारितामावहतीति प्रतीयमानत्वमलंकारस्य । तदभिधायिना मिवादीना मप्रयोगो
यथा
-
महासिधारा न खलूत्पलस्रजः" इति ।। १७१ ।।
यत्र पुनर्वाच्यमलं ( करणं), तत्रैवादिकं प्रतिपादनवैचित्र्यात् बहुप्रकारं प्रयोगमर्हति । तथाच पदार्थविषयाया मुपमायां वाक्यैकदेशवर्तिनो रुपमानोपमेययोः परस्परसाम्यवाचके प्रयुक्ते तस्मिन्नेव वाक्ये स्तनान्तरवर्तिनोरुपमानोपमेययोः सादृश्यसंबन्धाभिधायी पुनरिवादिः प्रयुज्यते । ( यद्यपि ) प्रतियुगलमुपमानोपमेयभावस्य परिसमाप्तिः, तथापि वाक्यार्थ निष्पत्तावुपमानोपमेयभावस्य संभवे प्रथमाभिहितैव युक्तिरनुसर्तव्या । यथा
-
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुत्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ १७२ ॥
क्वचित्पदार्थोपमायामेव
ययोः सादृश्यसमन्वयः वाचिकः । वाचकयुक्ते तस्मिन्नेव वाक्ये तयोरेकतरस्य धर्म्यन्तरेण सह धर्मान्तरं (र) सादृश्यनिबन्धनत्वात् उपमानोपमेयभावः संभवति । पूर्वोक्तया नीत्या तदभिधायी पुनरिवादिः प्रयुज्यते । यथा
वाक्यैकदेशव्यवस्थितयोरुपमानोपमे