________________
३.४३]
तृतीयोन्मेषः
१९७ ___ इन्दुमुखीत्यत्र इन्दुरिव मुखं यस्या: सा तथोक्ता। सकललोकविलोक्यमानाखिलमृगाङ्कमण्डलसंस्थानसादृश्ये निमित्तभावे पूर्वोक्तयैव (नीत्या) इन्दुशब्दस्यैव विशेषणत्वमिति पूर्ववदेव समासोपपत्तिः। यदि वा इन्दुमुखमिव मुखं यस्याः सा तथोक्तेत्यत्र इन्दुशब्दस्तदेकदेशे मुखे विशेषणम् (भवति) यथा ग्रामो दग्ध इति । शिष्टं पूर्वोक्तमेवानुसन्धेयम् । ___ “पुरुषव्याघ्रः' इत्यत्र साधारणधर्मोऽपि प्रतीयते । संबन्धं विनोपमानोपमेयभावस्यानुपपत्तेः; पदाभिसंबन्धसामर्थ्यात्तस्यावगतो गतार्थत्वात् सामान्यशब्दस्याप्रयोगः । तदिदमुक्तम् “उपमितं व्याघ्रादिभिः सामान्याप्रयोग" इति । इन्दुरिव कान्तं मुखं यस्याः सा इन्दुकान्तमुखीत्यत्र सामान्यशब्दस्य श्रयमाणतया युक्तिरभिधीयते । “इन्दुरिव कान्तमिन्दुकान्तम्" इति "उपमानानि सामान्यवचनैः” इत्यनेन समासे विहिते पश्चादिन्दुकान्तं मुखं यस्याः सा तथोक्तेति । सामान्यशब्दस्य वृत्तिवाक्ययोर्द्वयोरपि उपपद्यमानत्वान्न केनचिन्यायेन श्रूयमाणता विचारयितुं पार्यते, यतस्तेनैव सह पदान्तरं समस्यते, न पुनरन्येनेति कुतस्तस्य श्रूयमाणवृत्तः प्रतीयमानता कल्पेत? । . तदेवं विवक्षावशात् क्वचिदगम्यमानता, क्वचित्प्रयुज्यमानत्वम् । एवमादीनां सादृश्यनिबन्धनोभयविषय (सामान्य) संबन्धाभिधायिनां गम्यमानत्वाद'प्रयुज्यमानत्वम् । अर्थप्र त्यायनार्थं हि शब्दस्य प्रयोग: क्रियते । स चेत् कविकौशलकल्पितात् प्रकारान्तरात् प्रतिपन्नः तत: किं शब्दप्रयोगेण?। तथाच यत्र अन्यूनातिरिक्तच्छायाविशेषमर्थतः शब्दतश्चोपमानोपमेययोः साम्यसमर्पण सामर्थ्य सुभगप्रसादसुन्दरमपनिबन्धबन्धुरं वाक्यं श्रुतिसमनन्तरमेव वर्णानुपूर्व्याः प्रतिभासवदर्थप्रतिपत्तिपूर्वकमलं