________________
वक्रोक्तिजीवितम्
[३.४३
सोऊउआण ओरल्लि सद्दय
महिलियाण का जियइ विरहए ।। १६८ ।। गृहीत्वा चलविद्युत्प्रदीपं
रात्रिषु प्रलोक / विलोक | यन्ति मेघाः । श्रुत्वा मेघशब्दं स्त्रीणां (महिलानां) का जीवति विरहे ।।
इति छाया। अत्र गजितशब्दं श्रुत्वा महिलासु कासुचित् .. चलविद्युद्भाविका (ल) रात्रिषु मेघान् विलोकयन्तीति ... महिलानामभिप्रायनिश्चयस्यागोचरत्वात् वाक्यार्थस्यान्यथानुपपत्तेश्च पूर्वोक्तमनुसर्तव्यम् ।
तमिन्दुरोदित बिम्बशोभा ..............शोऽपि । मन्दप्रभालवितकामपाल
ललाटपट्टश्रियमाचकर्ष ॥ १६९ ।। अत्रार्थोदितेन्दुबिम्बशोभाया: सादृश्योल्लवितकामपालललाटपट्टश्रियः ... तदप्यतिरिक्तवृत्तिथर्म्यन्तरेण चमत्कारकारणमन्यथा न किंचनापि उपपद्यते । नानार्थमुपमाया: क्रियापद मेवंविधप्रतिपादकतां प्राप्नोति । ततश्च गतार्थत्वाभिधायिन: शब्दस्याप्रयोग: साक्षाद्विलोचनार्थवृत्तिर्न भवतीत्युपचारपारंपर्येण तद्विशेषणतां प्राप्यते। तथा च धर्ममि भावलक्षणायाः प्रत्यासत्तेः प्रथमं स्वाभिधेयलक्षणलक्षणाया गुणमात्रेणैव ततश्च सादृश्यनिबन्धनाया: प्रत्यासत्तेरेव तत्सदृशे विलोचनच्छायातिशयंवृत्तिमासादयति । तद्विशेषणत्वादेव समासेऽस्मिन् नीलोत्पलशब्दस्य पूर्वनिपातः सप्तमीविशेषणे बहुव्रीहाविति ।