________________
३.४३] तृतीयोन्मेषः
१९५ भूषणेऽपि विभूषणान्तरमसन्तोषादुपनिबध्नन्तीत्यभिधीयते तदपि न युक्तियुक्तम् । यस्मादन्यस्मिन् विभूष्ये संभवति यत्र भूषणोपनिबन्धः, तत्र भूषणान्तरमसन्तोषादुपपद्यते, न पुनरन्यस्मिन् । नेयं पूर्वोक्तया नीत्या प्रत्येकमेव परस्परं द्वयोरपि भषणभावे प्रत्याख्याते परिवत्तेविभूषा संभवति, यत्र भषणत्वमेवावशिष्यते । तस्मादुपशोभार्थमुपमाख्यमलंकरणमुपनिबद्धम् ।
तथा चायमत्र वाक्यार्थ:-यौवनोद्भदसमयसमुचिताभरणापसारणपूर्वकं वार्धकोपपन्नचीरपरिधानग्रहणं प्रकटशशाङ्कतारकया (विभावर्या प्रदोषेऽरुणसमागमकल्पमिति) किमपि काव्यस्फुरितभूतं तद्विदाह्लादकारित्वमुन्मीलयति । तदयमत्र परमार्थः-लक्षणोल्लिखितरेखया विभूषगविन्यासो विधातव्यः । प्रतिभाप्रतिभासमानभणितिवक्रताप्रकारवैचित्र्येणापि यथा
सिविणविखेण . . . (?) ॥१६५ ॥ क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।
ज्ञेया निदर्शनवासौ यथेववतिभिविना ॥ १६६ ॥ इति (लक्षिता) निदर्शनाप्युपमितिरेव ।
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदय: पतनायेति श्रीमतो बोधयन्नरान् ॥१६७॥ अत्र तथैवेति कविप्रतिभार्पिततात्पर्यान्तरनिश्चयलक्षणस्य वस्तुनः तदिवेति तदेवेति वा सादृश्यस्य प्रतिपादकं विना तत्प्रतिपादनप्रगल्भवाक्य प्रयोगमाहात्म्यादुत्प्रेक्षायाः प्रतीयमानत्वात् । यथा
धेत्तुआण चल विज्जु चडुलियं
राइआसु पुलयंति मेहया ।