________________
३.४३]
तृतीयोन्मेषः
किमित्यपास्याभरणानि यौवने । त्वया धृतं वार्धकशोभि वल्कलम् ॥१६०॥
क्वचिद्बहूनामपि धर्मिणां परिस्पर्धिनां पूर्वोक्ताः सर्वेऽपि परिवर्तन्ते । तथा च लक्षणकारेणात्रैवोदाहरणं दर्शितम् । यथा
शस्त्रप्रहारं ददता भुजेन तव भूभुजा ।
"
"
चिराजितं हृतं तेषां यशः कुमुदपाण्डुरम् ।। १६१ ॥ तदेवं परिवृत्तेरलंकरणत्वं (न) युक्तमित्याह - विनिवर्तनमेकस्य यत्तदन्यस्य वर्तनम् । तदलंकरणं न स्यात् पूर्ववत् परिवर्तनात् ॥ ४३ ॥ विनिवर्तनमित्यादि- ' यदेकस्य " पदार्थस्य 'विनिवर्तनं अपाकरणं “ तदन्यस्य” तद्वयतिरिक्तस्य परस्य, "वर्तनं " तदुपनिबन्धनं तदलंकरणं न भवति । कस्मात् उभयोः “ परिवर्तमानत्वात् " मुख्येनाभिधीयमानत्वात् । कथं " पूर्ववत् " यथापूर्वं प्रत्येकं प्राधान्यान्नियमानिश्चितेश्च ( यथा ) न किंचित् कस्यचिदलंकरणं, तद्वदिहापि विचारितम् । न च तावन्मात्ररूपतया तयोः परस्परविभूषण (विभूष्य ) भाव:, ( तथा सति) प्राधान्यनिवर्तनप्रसङ्गात् । रूपान्तरानिरोधेषु पुनः साम्यसद्भावे भवत्युपमिति - रेषा चालंकृतिः समुच्चितोपमावत् पूर्ववदेव । यथा
13
१९३
सदयं बुभजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनों
नवपाणिग्रहणां वधूमिव ॥ १६२ ॥
""
"2
अत्र समतया ( प्रियमाणः ) सानुरागः पृथिवी ( वधूभोग ) यत्नः पार्थि - वस्य प्रतीयते, द्वयोरपि वर्ण्यमानत्वात् तथा परिवृत्तावपि साम्यप्रतीतेरुपमैव । यथा