________________
१९२
वक्रोक्तिजीवितम्
[३.४२
यथा वा
हेलावभग्नहरकार्मुक एष सोऽपि हेला (पदान)परितोषितचन्द्रचूडः । तस्यैव सोऽस्य च. . . सख्य वा स्यात्
श्लाघ्यं द्वयोरुभयथापि तवाद्य तेषाम् ।। १५६॥ अत्र पूर्वोक्तमेवानुसन्धेयम् । यद्यप्युपमालक्षणावसरे भावमात्रमित्युभयनिष्ठमलंकरण माख्यातम् , तथापि तत्राप्रस्तुतत्वादुपमानस्य पराङ्गत्व मुपपन्नम् । इह पुन: प्रस्तुतस्य मुख्यत्वम । कथं तदिति विचारितमेव ।
परिवृत्तिरप्यनेन न्यायेन पृथङ् नास्तीति निरूप्यते। तथा च लक्षणं परिवृत्तेः"अर्थानां यो विनिमयः परिवृत्तिस्तु सा मता"
॥१५७॥ इति । परिवर्तनं च स्वान्तरावकाशे वस्त्वन्तरस्यावस्थानम् । असौ परिवृत्तिरलंकारोऽभिधीयते । सा च बहुप्रकारा-एकस्यैव विषयिणा समुचितविषयावकाशे विषयान्तरं परिवर्तते । यथा
स्वल्पं जल्प बृहस्पते सुरगुरो नैषा सभा वज्रिणः ॥१५८॥ क्वचिदेकस्यैव क्रमेण समुच्चितधर्मगोचरे धर्मान्तरं परिवर्तते । यथा
विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः ॥१५९॥ अत्र गौर्याः करकमललक्षणो धर्मः परिवर्तितः। क्वचिदेकस्यैव धर्मिणः समुचितस्वसंवादिधर्मावकाशे धर्मान्तरं परिवर्तते । यथा