________________
१९० - वक्रोक्तिजीवितम्
[३.४२ निदर्शनान्तरविषयत्वेन तुल्ययोगिता संभवति । यथा
यत्काव्यार्थनिरूपणं प्रियकथालापा रहोऽवस्थितं कण्ठान्तं मृदुगीतमादृतसुहृदुःखान्तरावेदनम् ।। १४९ ।। अनन्वयोऽप्युपमायामेवान्तर्भवतीति विवेच्यते । तथा चास्य लक्षणमुदाहरणं च
यत्र तेनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥१५० ।। ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव ॥ १५१॥ एतस्य लक्षणानन्यत्वमेव (व) [तत्सहाय ]मभिधावैचित्र्यविधायकत्वं चेति द्वितयमप्युपमान्तर्भावमेव साधयति । तत्रोपमानोपमेयभावव्यवस्थितेः । उपमान्तरेण सह लक्षणान्वितत्वमनन्वयस्य न संभवतीत्यभिधीयते तदपि न समाधानं, यस्मात्समारोपितरूपस्य (द्वित्वस्याभ्युपगमादु)पमानोपमेयभावसंबन्धनिबन्धनमेव (साम्यं) भवतामनन्वयलक्षणस्य प्रवृत्तिनिमित्तम् , अस्माकं केवलेनापि साध्यते तदित्याह
कल्पितोपमया तुल्यं कवयोऽनन्वयं विदुः ॥४२॥ "कल्पिता"-उल्लिखिता [वा] " उपमा" यस्या: सा तथोक्ता । तथा कल्पितोपमया "तुल्यं" अन्यनानतिरिक्तमनन्वयमलंकरणं " कवयः" तद्विद: “विदु:"-जानन्ति । तथा च कल्पितोपमायां वर्णनाविषयस्य वस्तुनः सौन्दर्यधाराधिरूढस्वसाम्य समन्वय: समुद्भवति । सातिशयत्वसमर्पणसामर्थ्यविरहात् सर्वेषां पदार्थानां भतानामसद्भुतं किमपि काल्पनिकमपमानमल्लिखन्तो यथारुचि रुचिराशयाः कवयः परिदृश्यन्ते ।