________________
३.४१]
ततीयोन्मेषः
१८९
भेदानाम् ।
अभिधायाः प्रकाराणामानन्त्यं प्रतिभोद्भवम् । वक्तुं न पार्यते कान्तालीलावैचित्र्यवत्स्फुटम् ।। १४५ ।।
_ अन्तरश्लोकः । तुल्ययोगिताप्यत्रैवान्तर्भावान्नातिरिच्यते । तथा च लक्षणं निदर्शनं चैतस्या:--
न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
तुल्यकार्य क्रियायोगादित्युक्ता तुल्ययोगिता ॥१४६ ।। इति । तैः प्रतिपादिता, यस्मात् साम्यातिशयात् । यथा--
शेषो हिमगिरिस्त्वं च महान्तो गुरव: स्थिराः ।
जात्वलचितमर्यादाः चलन्ती बिभृथ क्षितिम् ।। १४७ ।। अत्र लक्षणे तावदुपमान्तर्भावं तुल्ययोगिताया: प्रतिपादयति-(असि)द्धातिशयस्य वस्तुन: सिद्धातिशयेन साधर्म्यसमन्वयो निबन्धनमुपमायाः; पुनरस्या गुणसाम्यविवक्षया तुल्यकालक्रियायोग: प्रस्तुताप्रस्तुतसाम्यव्यतिरेकेण न किंचिदत्र तात्पर्य प्रतिपादयति । निदर्शनमप्येवंप्रायमेव । वर्णनाविषयस्य वर्ण्यमानवृत्तिश्लेषादिसाम्यव्यतिरेकेण अतिरिक्ततया न किंचिदपि प्रतिभासते । तेन चैतदुदाहरणं विविक्तार्थवृत्तिश्लिष्टताप्रतिभासमाहात्म्यात् न च निदर्शनान्तरमिति यदभियुक्ततरैः तैरेवाभ्यधायि, न तदपि युक्तियुक्तम् । यथा--
यदृष्टा सा न वा दृष्टा मुषिता: सममेव ते ।
हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥ १४८।। एतदलंकारवार्तामात्रानभिज्ञस्य कस्यचित्प्रलपितमिति सचेतसां प्रतिभासते । यस्माद्वदग्ध्यस्य भङ्गया तरुणीलावण्यातिशयप्रतिपादनपरेयं अप्रस्तुतप्रशंसा कविचेतसि परिस्फुरति । यदि वा