________________
१८४ वक्रोक्तिजीवितम्
३.३७] पूर्णेन्दुकान्तिवदना नीलोत्पलविलोचना ॥१३२॥ यथा च
यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृत्तशतपत्रनिभं वहन्त्या । दिग्धोऽमतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥१३३ ।।
प्रत्ययप्रतिपाद्योपमोदाहरणं यथा
माञ्जिष्ठीकृत पट्टसूत्रसदृश: पादानयं पुजयन् । यात्यस्ताचलचुम्बिनी परिणति स्वैरं ग्रहग्रामणी: । वात्या चक्रविवर्तिताम्बुजरजश्छत्रायमाणः क्षणं क्षीणज्योतिरितोऽप्ययं स भगवान भोनिधौ मज्जति ।।१३४॥ यथा वाइत्याकर्णितकालनेमिवचना(दाघर्घरो)दुर्धरो हुङ्कारः पदयो ... .पुर: प्रख्यापितस्यागमः । धैर्यस्तम्भविजृम्भितोद्धरमदप्रोन्माथपर्याकुलं
क्रोध: कुञ्जरवन्महासुरपते: स्वच्छन्दमा (लोक्यते) ॥ १३५॥ यथा
इतीदमाकर्ण्य तपस्विकन्या (विलोल)मुद्वीक्षितमुत्सुकस्य । तस्यातिमुक्ताकुलपुष्पकाशं
गतागतास्या हृदयं मुमोह (?) ।। १३६ ।। यथा वा
रामेण मुग्धमनसा वृषभध्वजस्य यज्जर्जरं धनुरभाजि मृणालभञ्जम् ।