________________
१८३
३.३७] तृतीयोन्मेषः
१८३ इवादिप्रतिपाद्यपदार्थोपमोदाहरणं यथा---
चुम्बन कपोलतलमुत्पुलकं प्रियाया: स्पर्शोल्लसन्नयनमामुकुलीचकार । आविर्भवन्मधुरनिद्रमिवारविन्द
मिन्दुस्पृशास्तमितमुत्पलमुत्पलिन्या: ।। १३० ।। तथाविधवाक्योपमोदाहरणं यथा
पाण्डयोऽयमंसार्पितलम्बहारः ।। क्लुप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः ।
सनिर्झरोद्गार इवाद्रिराज: ।।१३१॥ एतयोर्द्वयोरपि वाक्ययोः यद्यप्युपमेयेनोपमानः सह प्रत्येक स्वसंबन्धिनं प्रति परस्पर (साम्य)समन्वयलक्षणसंबन्धिनाभिसंबन्धः, तथापि पूर्वस्मिन् साम्यसमन्वयावसायपूर्वको वाक्यार्थावसाय:, परस्मिन् पुनः वाक्यार्थावसितिपूर्वकसाम्यसमन्वयावसितिः । अस्मिन् वाक्ये समासादि विषयप्रत्ययान्तरनिरपेक्षत्वात् पदार्थावबोधसमनन्तरतया परस्परसाम्यसमन्वयस्याप्युद्भिद्यमानत्वात् , पदार्थोपमाव्यपदेश: प्रवर्तते । नात्र प्रथमार्धे एव वाक्यार्थपरिसमाप्तिर्वेदितव्या, कविविवक्षाविषयार्थनिष्पत्तेरन नुभूतत्वात् । तत्र “सालंकारस्य काव्यता" इति च न्याय: । अपरस्मिन् पुन: परस्परान्वयलक्षणसंबन्धनिबन्धनवाक्यार्थावधारणपूर्वकत्वात् उपमानोपमेयपरस्परसाम्यसमन्वयावगते: वाक्योपमाव्यपदेश: युक्तता प्रतिपद्यते । (क्रियापदप्रतिपाद्योपमोदाहरणानामुपमावार्ताद्युक्तमित्यलमतिप्रसङ्गेन ।)
आदिग्रहणादिवादिव्यतिरिक्तेनापि यथादिना शब्दान्तरेणोपमाप्रतीतिर्भवतीति (उक्तमेव)। (समासेऽनुक्तौ उक्तौ) वा द्वयं यथा