________________
१८२ वक्रोक्तिजीवितम्
[३.३७ तदिति पदार्थपरामर्शः, तेषां पदार्थानां “समन्वयात्" अन्योन्यमभिसंबध्यमानत्वात् ।
वाक्ये हि बहवः पदार्थाः संभवन्ति । तत्र परस्पराभिसंबन्धमाहात्म्यात् कस्यचिदेकेन केनचिदेव साम्यनिबन्धन (मुपमोत्प्रेक्षयोः)। तदेवं तुल्येऽस्मिन् वस्तुसाम्ये सति, उपमोत्प्रेक्षावस्तुनोः कीदृक् पृथक्त्वमित्याह
उत्प्रेक्षावस्तुसाम्येऽपि तात्पर्यान्तरगोचरः ॥३७॥ उत्प्रेक्षायाः साम्यसंबन्धे विद्यमानेऽपि “तात्पर्य" पदार्थव्यतिरिक्तवृत्ति वाक्यार्थजीवितभतं वस्त्वन्तरमेव “गोचरो” विषय: तद्विदामन्तःप्रतिभासः यस्य, तथा चैवोदाहृतः । उपमोत्प्रेक्षावस्तुनोरत्र केवले करणे कर्मणि वा अवतिनोरुभयोरपि तुल्यत्वेनाभिसंबध्यमानत्वात् । एवमुपमितिरुपमेति भावमात्रे व्यवतिष्ठते । तथा च वर्ण्यस्य नि(तराम् अवर्णनीये)न साम्यं यस्यामिति लक्षणतात्पर्यम् । उभयमेव निश्चितं प्रतिपादयति । अमुख्यक्रियापदप्रतिपन्न पदार्थानामुदाहरणं यथा----
पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे ।
पुष्णाति पुष्पचापस्य जगत्त्रयजिगीषुताम् ।। १२६ ।। तथाविधवाक्योपमोदाहरणं यथा
"निपीयमानस्तबका शिलीमुखैः" ।। १२७॥ इत्यादि । आख्यातपदप्रतिपाद्यपदार्थोपमोदाहरण यथा----
ततोऽरुणपरिस्पन्देत्यादि ॥१२८।। तथाविधवाक्योपमोदाहरणं यथा
मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारा तरुणेन्दुमण्डलां विभातकल्पां रजनी
व्यडम्बयत् ।। १२९॥