________________
३.३६]
तृतीयोन्मेष:
१८१
तदर्थम् । कीदर्शन पदार्थान्तरेण - " तदुत्कर्षवता "; तदिति मनोहारित्वं परामृश्यते, तस्य " उत्कर्षः " ( अतिशयः ) स विद्यते यस्य स तथोक्तः, तेन तदुत्कर्षवता, मनोहारित्वातिशयवता ।
इत्यत्र
तदिदमत्र तात्पर्यम् -- वर्णनीयस्य विवक्षितधर्म सौन्दर्यसिद्धयर्थ अप्रस्तुतपदार्थेन धर्मिणा साम्यं युक्तियुक्ततामर्हति । धर्मेणेति नोक्तं, केवलस्य तस्यासंभवात् तदेवमयं धर्मद्वारको धर्मिणोरुपमानोपमेयलक्षणयोः फलतः साम्यसमुच्चयः पर्यवस्यति । एवंविधामुपमां कः प्रतिपादयतीत्याह -- क्रियापदमित्यादि । "क्रिया " —धात्वर्थः । (क्रियापदशब्देन मुख्या मुख्यक्रिया ) वाचक सामान्य - मात्रमत्राभिप्रेतं न पुनराख्यातपदमेव । यस्मात् अमुख्यभावेनापि क्रिया यत्र वर्तते तदप्युपमावाचकमेव । तथा च पाचकः पाकशक्तेः प्राधान्येन तदन्तर्लीनवृत्तिः प्रकृत्यर्थो विद्यत एव पचति इति पाचक इति । तथा पचतीत्यत्र क्रियायाः प्राधान्येऽपि कारकार्थ अपि अन्तर्लीनः । तदेवमुभयरूपमपि क्रियापदपरिस्पन्दस्पन्दिनी "तां" - उपमां," वक्ति" अभिधत्ते । कथं ? " विच्छित्त्या " - वैदग्ध्यभङ्गया । विच्छित्तिविरहेणाभिधानेन तद्विदाह्लादकत्वं न सभवतीति भावः । क्रियापदं न केवलं तां वक्ति यावद्" इवादिरपि " ( इव) प्रभृतिरपि तत्समर्पणसामध्ये समन्वितो यः कश्चिदेव शब्दविशेष:, समासो बहुव्रीह्यादि:, प्रत्ययोऽपि वत्यादिः विच्छित्या तां वक्तीति । अपि समुच्चये ।
.
कस्मिन् सति ? “ साधारणधर्मोक्ती 'साधारणः समान: यो (S सौ) तयोरुपमानोपमेययोरुभयोरनुयायी धर्मः (तदुक्त) । धर्मान्वययोः क्रिययोः कर्तृभेदेन सुबन्तस्योपमा । कुत्र ? “ वाक्यार्थ वा” – परस्परान्व यसंबन्धेन पदसमूहो वाक्यं तदभिधेयं वा वस्तु विभष्यत्वेन विषयो गोचरः तस्मिन् । कथं ? " तदन्वयात् " --
,
39