________________
ܘܘܐ
वक्रोक्तिजीवितम्
३.३५-३६ अप्रगल्भयवसूचिकोमला
छेत्तुमग्रनखसंपुटैः करा: ।। १२५ ।। अत्र रसपरिस्पन्दसौन्दर्यातिशयः समुद्भासते। तथा च नूतनोदयानां दर्शितसौकुमार्याणां शशाङ्ककिरणानामन्यादृशः कोऽप्यतिशयः संप्रति समुज्जम्भते, येनात्यर्थं कपोलकर्णालकसंपर्कश्लाघनीयां कर्णपूररचनाविच्छित्तिमहतीति पार्वतीपति: प्रियायाः प्रतिपादयंस्तद्वदनेन्दुसौन्दर्यदर्शनेन तत्कालोदितशशाङ्ककरावलोकनेन च रसोचलितचित्तवृत्तिः प्रतीयते ।
एवमलंकार्यस्य वस्तुन: प्रधानभूतस्याङ्गभावेन व्य(वस्थि). तोऽप्यलंकारवर्ग: किंचिदतिरिक्तवृत्तितयोपनिबध्यमान: संनिवेशसौकुमार्यमाहात्म्यादुद्रिक्तभावेन परिस्फुरन् गुणभूतोऽपि मुख्यतामिवापद्यमान: निबन्धनप्रभावात्तुप्राधान्येनावभासमानो व्याख्यातः।
इदानी साम्यसमुद्भासिनो विभूषणवर्गस्य विन्यासविच्छित्ति विचारयति
विवक्षितपरिस्पन्वमनोहारित्वसिद्धये । वस्तुनः केनचित्साम्यं तदुत्कर्षवतोपमा ॥३५॥ तां साधारणधर्मोक्तौ वाक्यार्थे वा तवन्वयात् ।
इवादिरपि विच्छित्त्या यत्र वक्ति क्रियापदम् ॥३६॥ विवक्षितेत्यादि-“यत्र"--- यस्यां, “वस्तुनः"-प्रस्तावाधिकृतस्य, “केनचित्”---अप्रस्तुतेन पदार्थान्तरेण, “साम्यम्” सोपमाउपमालंकृतिरित्युच्यते । किमर्थमप्रस्तुतेन साम्यमित्याह"विवक्षितपरिस्पन्दमनोहारित्वसिद्धये” “विवक्षित:" वक्तुमभिप्रेतो , योऽसौ “परिस्पन्दः” कश्चिदेव धर्मविशेषः (तस्य " मनोहारित्वं"-हृदयाह्लादकत्वं तस्य “सिद्धिः”-निष्पत्तिः)