________________
३.३४]
१७९
तृतीयोन्मेषः चन्द्रकान्तमणिदुर्दिने (सद्मनि ?) त्यजद् राजहंसमनुबध्नती गिरा। ज्योत्स्नया जनितसंशया पुन: वक्रदूतिरिव रौति सारसी ॥१२१॥
यथा वा
स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिता: ।
अन्वमीयन्त भृङ्गालिवाचा सप्तच्छदद्रुमा: ।। १२२ ।। अत्र भावस्वभावातिशय: परं परिपोषमधिरोपितः । यथा वा
यस्य प्रज्वलति प्रतापतपने तेजस्विनामित्यलं लोकालोकधराधरेऽप्यतिशय: शीतांशबिम्बे वृथा । त्रैलोक्यप्रथितापदानमहिते क्षोणीशवंशोद्भवे
सूर्याचन्द्रमसौ स्वयं कृशतरच्छायां समारोहतः ।। १२३ ।। यथा च
हिमाम्बुनिर्वृत्तनिमज्जनानां बालातपस्पर्शननिर्मलानाम् । सावित्रभासा विहिताङ्गराग
मङ्गं किमप्यङ्करितं स्थलीनाम् ।। १२४॥ अत्र पूर्वस्मिन् रूपकालंकारातिशयपरिपोषप्रकर्षः। तथा प्रथमेऽपरस्मिश्च रसवदलंकारपरिपुष्टि: । तथा च तुहिनसलिलक्षालनक्षपितकलङ्कितया नतनातपपिहितांशकेनाभिव्यक्तविमलभावेनांभःस्नानादिसरसरमणीव्यापारसमारोपणेन किमपि सौकुमार्यमारोपितम् । यथा च
शक्यमोषधिपतेर्नवोदया: कर्णपूररचनाकृते तव ।