________________
१७८ वक्रोक्तिजीवितम्
[३.३३-३४ मन्येषामपि भूषणानां केषांचिदियं सारस्वरूपमासूत्रयन्ती प्रथमोल्लेखकारणतां स्वयमेव समाजामति, तन्निबन्धनत्वाद्विच्छित्तिविशेषानाम् ।
अपहृत्याप्यलंकारलावण्यातिशयश्रियः ।
उत्प्रेक्षा प्रथमोल्लेखजीवितत्वेन जृम्भते ।। १२० ।। इत्यन्तरश्लोकः ।
एवमुत्प्रेक्षां व्याख्याय सातिशयत्वसादृश्यसमुल्लसितावसराम् अतिशयोक्ति प्रस्तौति ।
उच्यतेऽतिशयोक्तिः सा सर्वालंकारजीवितम् । यस्यामतिशयः कोऽपि विच्छित्त्या प्रतिपाद्यते ।
वर्णनीयस्य धर्माणां तद्विदाह्लाददायिनाम् ॥३३॥ “ उच्यतेऽतिशयोक्ति: सा”—अतिशयोक्तिरलंकृतिरभिधीयते । कीदृशी? “यस्यामतिशयः”–प्रकर्षकाष्ठाधिरूढः कोऽप्यतिक्रान्तप्रसिद्धव्यवहारसरणि: । “विच्छित्त्या प्रतिपाद्यते”–वैदग्ध्यभङ्गया समयते। कस्य? “वर्णनीयस्य धर्माणां”–प्रस्तावाधिकृतस्य वस्तुन: स्वभावानुसंबन्धिनां परिस्पन्दानाम् । कीदृशानां ? “तद्विदाह्लाददायिनां"-काव्यविदानन्दकारिणाम् । यस्मात् सहृदयाह्लादकारिस्वस्पन्दसुन्दरत्वमेव वाक्यार्थः, ततस्तदतिशयपरिपोषिकायाम् अतिशयोक्तावलंकारकृतः कृतादरा: ।
एवंविधस्वरूपास्ते यथोल्लासितकान्तयः ।
रसस्वभावालंकाराः परां पुष्णन्ति वक्रताम् ॥ ३४ ॥ “एवंविधस्वरूपास्ते यथोल्लासितकान्तयः” समुद्दीपितशोभातिशयास्त्रयोऽपि “परां वक्रतां”-अलौकिकं काव्यरहस्यभतवक्रभावं “पुष्णन्ति” उद्भासयन्ति । यथा